Book Title: Stotra Ratnakar Satik Part 02
Author(s): Jinvallabhsuri
Publisher: Yashovijay Jain Sanskrit Pathshala

View full book text
Previous | Next

Page 136
________________ ShriMahiyeJanAradhanaKendra winw.kobabrith.org Acharya Shangan Gyaan श्रीपार्श्वच.. व्याख्या०- अहं पार्श्वचन्द्रनामा कविः । भक्त्या-परमसेवया कृत्वा जिनवर्धमानं स्तवीमि-सुतिगोचरीकरोमिवीरस्तवनं. इत्यन्वयः । किंविशिष्टं जिनवर्धमानं ? कल्याणेति, कल्याणानां मङ्गलानां माला श्रेणिस्तस्या मणयो रत्लानि तेषां सन्निधानं-शुभनिधि कोशं। एतद्विशेषणेन प्रभोर्मङ्गलमयत्वं प्रोक्तं । पुनः किंविशिष्टं जिनवर्धमानम् ? श्रीगौतमाद्यैः मुनिभिः प्रधानमग्रेसरं । पुनः किंविशिष्टं ? यशोगुणैः कीर्त्या औदार्यादिभिगुणैः (च) । संप्रत्यद्यापि वर्धमानमेधमानं । एतद्विशेषणद्वयेन शालिक्षेत्रशालिवृत्तिशुभभङ्गत्वं प्रोक्तं (2)॥१॥ अथ द्वितीयपद्ये वीरशासनवर्तिजनलक्षणं दर्शयन्नाह __ अइउऋलसमानाः सन्ति लोका इदानी-मघनसरलभूता वक्रभावप्रभूताः। कथमिह हि लभन्ते प्राभवं शुद्धमार्ग, प्रचुरतरविशस्ते तेन तुच्छा नु चित्रम् ॥२॥ व्याख्या-इदानी-संप्रतिकाले लोका-जना अइउऋलसमाना-अकारादिभिः पञ्चभिः स्वरैः सदृशाः सन्तीत्यन्वयः। एतत्सादृश्यं विशेषणद्वारा स्पष्टयति-किंलक्षणा लोकाः? अघनेति, न घना अघनाः, स्तोकाः, सरलभूता ऋजुप्रायाः, टायेषु ते । अथवा सरला ऋजवः भूता जीवा येषु ते । अकारादिस्वरपञ्चकपक्षे अघनः स्तोक एक एवाकारः सरलप्रायो येषु ते । पुनः किंलक्षणा लोकाः बक्रेति, बक्रभावा अनृजुस्वभावाः प्रभूता बहवो येषु ते । अकारादिस्वरपञ्चकपक्षेत्र ॥ ६१॥ एकेनाकारेण वर्जिताः सर्वेऽपि इकारादिचतुःस्वरा वक्रभावा बहवो येषु ते इति स्थितं । हि इति निश्चितं । इह कलि १ अथवा छन्दःशाख लघवः सर्वेऽपि सरला. २ ऋजब ऋजुसदृशाः. For Prate And Person Use Only

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206