SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अपमायं अपमायं अपमायं तुह मणं व जिण ! चरणं । सत्ताणं सत्ताणं सत्ताणं भवभए हवइ ॥ ५ ॥ अव० - हे जिन ! तब त्वदुपदिष्टं चरणं चारित्रं । सत्त्वानां भवभये सति । सच्छोभनं त्राणं भवति । कथंभूतानां सवानां ? स्वार्त्तानां सुष्ठु अतिशयेन आर्त्ताः पीडितास्तेषां । कीदृशं चरणं अप्रमादं प्रमादरहितं । अपमायं । बाहुलकान्नपस्य वः । अप्रमां तत्स्वपरिच्छेदाभावं द्यति अप्रमादं । अप्रमः प्रमाणरहित आयो लाभो यस्मात्तत्तथा । किमिव ? मन इव त्वच्चेत इव ॥ ५ ॥ अणवरयं अणवरयं अणवरयं तं नमंति जे नाह ! | कल्लाणं कलाणं कल्लाणं ताण साहीणं ॥ ६ ॥ अव० -- अनवरतमश्रान्तं त्वां ये नमन्ति । हे नाथ ! । कीदृशं ? न नवे स्तवे रतोऽनवरतस्तं सर्वैः स्तुत्यत्वादस्तोतारं । 'अण' इत्ययं निषेधे, 'अणणा न इत्यर्थे' इतिवचनात्, न वरदं ब्रह्महरिहरादिवत् न वरदातारं त्वद्भक्त्या स्वत एव तेषां मनीषितप्राप्तेः, चिन्तामण्यादिवत् तेषां कल्याणं श्रेयः । कल्याणं स्वर्ण च । स्वाधीनं हस्तवर्ति भवतीति गम्यते । तेषां कीदृशां सतां ? कल्यानां नीरोगाणां प्रवीणानां वा ॥ ६ ॥ ओसरणं ओसरणं ओसरणं तुह जिनिंद ! दुरियाणं । रायनयं रायनयं रायनयं कस्स न हुइई ॥७॥ अव० -- ओसरणं समवसरणं । तव जिनेन्द्र ! अपसरणं दुरितानां अपसरत्यस्मादित्यपसरणं तत् । कस्य न शरणं For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy