Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 271
________________ .६२४ सिद्धिविनिश्चयटीकायाम् [९ शब्दसिद्धिः महानससम्बधिनोऽग्न्यादेः तस्य प्रत्यक्षसिद्धवात् , न तत्र तत् प्रमाणमिति। अन्यत्र प्रमाणमिति चेत् ; अत्राह-तदन्यत्र इत्यादि । तस्मादन्यत्र प्रत्यक्षादन्यत्र परोक्षे प्रमाणं कथम् ? कुतः ? इत्याह-प्रतिबन्धासिद्धेः अन्यत्र इति । स्यान्मतम्-धूमसामान्यम् अग्निसामान्येन व्याप्तमेकदा प्रतिपन्नं सर्वदा प्रतिपन्नमेव इति ५ चेत् ; तदाह-सामान्येन इत्यादि । परं पृच्छति 'किं पुनः' इत्यादिना । पर आह-अन्यापोहः सामान्य[म् इत्यादि । अन्य]स्माद् विजातीयादपोहः व्यावृत्तिः, अन्यस्य वा अपोहः, अन्यो वा अपोह्यतेऽस्मिन् विकल्पाकारे इति । विकल्पान्तरवदपोहविषयत्वेन प्रत्यक्षस्य विकल्पकत्वप्राप्तः इति मन्यते । अथ अनुमानात् तत्प्रतीतिरिष्यते ; सत्राह-तदनुमान इत्यादि । तस्य व्याप्य व्यापकापोहसामान्यस्य अनुमानकल्पनायां सत्याम् अनवस्थानात् कथमनुमानज्ञानं क्वचित् १० प्रमाणमिति ? तथाहि-सामान्यम् अनुमानात् प्रतीयते। तदपि लिङ्गादुदयवत् , तत्रापि सामान्येन प्रतिबन्धवेदनम् , तत्रापि तदेव वक्तव्यं यावन्न कचिदवस्थानमिति । स्यान्मतम्-प्रमाणमन्तरेण तत्प्रतीयते इति ; तत्राह-प्रमाणमन्तरेण न तस्य अपोहस्य प्रतिपत्तिः तत्प्रतिपत्तिः । कुतः ? इत्याह-अन्यत्रापि इत्यादि । [४८८ख] अन्यत्रापि प्रत्य क्षानुमेयाभिमतेऽपि प्रमाणकल्पनाऽनर्थक्यात प्रकृतसामान्यवद् अन्यस्यापि तदन्तरेण प्रतीतेः । १५ व्यवहारेण तस्य सार्थकत्वे प्रतिबन्धज्ञानं तथास्तु । योगिप्रत्यक्षं तदस्तीति चेत् ; उक्तमत्र 'सर्वस्मात् स्वविषयात् तदनुत्पत्तेः' इत्यत्तेः' इतरथा तत एव साध्यसिद्धः किमनुमानेन ? तत्रापि सामान्येन प्रतिबन्धग्रहणे सविकल्पं तत् इति। दूषणान्तरमाह-सादृश्य इत्यादि । सदृशपरिणामलक्षणं(णां)जाति सामान्यमन्तरेण कथम् अन्यव्यावृत्तम् अन्यस्मात् विजातीयादपसृतं पावकादिकम् एकत्वेन अभेदेन प्रतीयात् ? न कथञ्चित् । स्वयं हि सादृश्याद् व्यावर्त्तते नान्ये सदृश२० परिणामलक्षणजातिसद्भावे च किमन्यापोहसामान्येन इति भावः। कुतः न कथञ्चित् प्रतीयात् ? इत्याह-विवक्षित इत्यादि । विवक्षितंज्ञानम् अशेषं स एव पदार्थः पदाभिधेयः तस्य अन्यस्मादज्ञानात् पटात् व्यावृत्तिः तस्याः सर्वत्र घटादावविशेषात् । तथा च अज्ञानात् पटाद् व्यावतमानं यथा ज्ञानं ज्ञानपदाभिधेयं तथा घटादिकमपि स्यात् । अथ स्वयं ज्ञानमेव ततो व्यावर्त्तमानं तद्व्यपदेशभागुच्यते ; तर्हि साध्वेतत्-सदृश इत्यादि । २५ ननु न परमार्थतः सादृश्यमप्येवं सामान्यमस्ति, केवलमेकप्रत्यवमर्शज्ञानहेतुत्वात् धियामभेदः, सदभेदाद् व्यक्तीनामभेद इति । तदुक्तम्-[४८९क] *"एकप्रत्यवमर्शस्य हेतुखाद्धीरभेदिनी । एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥" [प्र० वा० ४।१०८] इति ; तत्राह-सादृश्येन इत्यादि । [सादृश्येन विनार्थानां प्रत्यभिज्ञावलात् किल । प्रतिपत्ता तदतद्धेतूनर्थान् विभजते स्वयम् ॥१५॥ (१) अनुमानम् । (२) अनुमानमपि । (३) अविनाभावसम्बन्ध । (४) प्रमाणमन्तरेण । (५) 'इत्यत्तेः' इति निरर्थकमत्र । (६) योगिप्रत्यक्षादेव । (७) घटपदाभिधेयं स्यात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456