Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 341
________________ ६९४ सिद्धिविनिश्चयटीकायाम् [ ११ शब्दनयसिद्धिः 1 दर्शनेन स मर्दितः स्यात्, अतिप्रसङ्गश्चैवम् । सर्वस्यापि ब्राह्मणकृतस्य नास्तिकादिशास्त्रस्य तदङ्गताप्राप्तेः, तथा च[त] दर्थानुष्ठानम् । अथ ब्राह्मणोऽसौ न भवति; कुत एतत् ? अप्रमाणार्थाभिधानात् शब्दसाधुवे किं प्रमाणं येन तदनुवादकरणात् पाणिनिः ब्राह्मणः स्यात् । श (शा) स्त्र मिति चेत्; अन्यत्र समानम्, अन्यस्यापि वेदाङ्गत्वप्रतिपादनात् । धर्महेतुतत्साधुत्व५ कथनात् स ब्राह्मण इति चेत्; न; अत्रापि प्रमाणाभावात् । अथ वैदिकशब्दानुशासनात् ब्राह्मणोऽसौ; अन्योऽपि वैदिकमात्रिक विवाहाद्यर्थानुशासनाद् ब्राह्मणोऽस्तु । वेदे सोऽर्थो नास्तीति चेत्; न; तच्छास्त्रस्य वेदाङ्गत्वात् । पुरुषकृतस्य कथं तदिति चेत्; न तर्हि पा णि ने स्तदङ्गता । पाणि निना तत्स्मृतमिति चेत्; प्रकृतेऽपि समानमेतत् । किंच, जैनेन्द्रं पूं ज्य पा दे न तीर्थङ्करादधीतं पुनर्विस्मृतं स्मृतमिति किन्नेष्यते ? १० स्यान्मतम् - पाणिनि मतानुसरणं तत्र श्रूयते, दृश्यते चे; तत्रापि परमतानुसरणं श्रूयते दृश्यते च इति समानं परस्यापि परानुसरणम् । यथा च इदानीम् अन्यमतानुसरणात् केषांचिद् व्याकरणं तथा द्विजानामपि पुरा परमतानुसरणात् तत्करणे को विरोधः ? तन्न तो व्याकरणस्य तदङ्गता । अथ वेदार्थप्रत्यायना [[ ] तदङ्गता ; न; तत्र शब्दाः केवलं व्युत्पाद्यन्ते, तंत्र ते १५ व्युत्पादिताः तदर्थवद् अन्यमपि सङ्क ेतात् कथयन्ति । यथा च [ ५३९क] कचित् सामान्यलक्षणा(ण) परिगृहीता वैदिकाः शब्दा व्युत्पाद्यन्ते तथा अन्यत्र अन्य इति समानम् । यदि मतम् - वेदोक्तशब्दाश्रयणात् तदिति तत्तदङ्गमिति ; तदास्तां तावत् । तन्न तद्नादि इतरशास्त्रवत् । किं कृत्वा प्रोक्तम् ? इत्याह-उद्दिश्य अवलम्ब्य । कानि ? अक्षरपदानि "अवीकोयन्नि” (“अचीको यण्")[जैनेन्द्र० ४।३।६५ ] इत्यादावक्षराणि * “सुम्मिङन्तं पदम् " [जैने२० न्द्र० १।२।१०३] इत्यादौ पदानि " ननु धुयोगे" ("धुयोगे त्या ") [जैनेन्द्र० २।४।१] इत्यादौ वाक्यान्यपि उद्दिश्य तत्प्रोक्तम् तत्कथमिह तदग्र [ह]णमिति चेत् ? न ; तदुपलक्षणत्वाद् अस्य । द्वैयोज (योरु) पादानमनर्थकम् एकेन उपलक्षणादिति चेत्; न; मीमांसकं प्रति दृष्टान्तार्थ - त्वात् पदोपादानस्य । तथाहि - र - यथा 'गौः इत्यत्र न गकारादिव्यतिरेकेण पदम्, “अथ गौः इत्यत्र कः शब्दः ? गकारौकारविसर्जनीयाः इति भगवानुपवर्ष: ।" [शावरभा० १|१|५ ] २५ इति वचनात्, तथा नाक्षरं तदवयवव्यतिरेकेण । सावयव (वं) चाक्षरं यद्वक्ष्यति 'अणुमयम्' इति तन्मयस्य घटादिवत् सावयवत्वात् । तथापि अक्षरभाववत् तदभावोऽपि इति तत्र किम् ? इत्याह-तत्र इत्यादि । अनेन शब्दनिरूपणे स्वातन्त्र्यमात्मनो निराकरोति । तत्र व्याकरणे, 'तेषु वा मध्ये ' इत्येके", अक्षरं वर्णजात्यपेक्षम् एकवचनम् । किम् ? इत्याह- द्रव्यात्म द्रव्यस्वभावम् । पुनरपि किंभूत (तम् ) इत्याह- अणुमयम् भाषापरमाणुविकाररूपम् । I ३० ननु परमाणुविकारस्य घटादिवद् द्रव्यात्मकत्वाव्यभिचारात् किं द्रव्यात्मपदेन इति चेत्; न ; एकान्ताभावात् । तद्विकारो हि कश्चिद् गुणः श्यामत्वरक्तत्वादिवत्, अपर: कर्म गमनादिवत्, (१) देवनन्दिना आचार्येण । (२) इति चेत्; । (३) वेदाङ्गता । ( ४ ) व्याकरणे । ( ५ ) अक्षरपदयोः । (६) अणुमयस्य । (७) व्याख्याकाराः । (८) परमाणुविकारः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456