Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 380
________________ ११।२७] सविकल्पकमेव प्रमाणम् विवेकस्य कर्कटीभक्षणादौ धिया कालविच्छेदस्य अनिश्चात् । एतद् दूषयन्नाह - सकृद्भावः प्रसज्येत । केषाम् ? सविकल्पमनोधियाम् । समर्थकारणबहुत्वाद् युगपत्कार्य बहुत्वमनिवार्यम्, तथा च *“अश्वं विकल्पयतोऽपि गोदर्शनात्" इत्यादि विरुध्यते । षण्णां धियां सकृद्भावे परकीयां युक्तिं दर्शयन्नाह - शब्दादिषु इत्यादि । शब्दः आदियेषां रूपादीनां तेषु । किंभूतेषु ? अभिमतेषु युगपत् सन्निहितेषु सत्सु तद्विज्ञानानां शब्दादि - ५ धियां क्रमोत्पत्तौ अङ्गीक्रियमाणायां प्रत्येकम् एकमेकं प्रति विच्छेदः प्रतीयेत युगपच्छब्दादिप्रतीतिर्न स्यात् । कुतः ? इत्याह- प्रत्येकं पञ्चभिर्व्यवधानात् । नैयायिकमतमाशङ्कते सौगतः भावपक्षस्य इत्यादि । तत्र दूषणमाह- स एव रस इत्यादि । तत इत्याद्युपसं [हारः ] । संप्रत्याचार्यः कारिकां विवृण्वन्नाह - इति इत्यादि । इति एवं कल्पनायां [ ५७० ख] १० सहभावः प्रसज्येत । केषाम् १ इत्याह- सविकल्प इत्यादि । सविकल्पमनश्च अक्षज्ञानानि च तेषाम् । पुनरपि केषाम् ? इत्याह- तदन्यव्यवच्छेद इत्यादि । [ अन्यस्य ] अन्यतो वा व्यवच्छेदः, तेषां तज्ज्ञानानाम् अन्यव्यवच्छेदः तदन्यव्यवच्छेदः तस्य व्यवसायो निर्णय आत्मा एव (स्व) भावो यासां तासां च 'संविदाम्' इति पदघटना, मनोविकल्पानाम् इत्यर्थः । कस्मिन् सति ? इत्याहतदविच्छेदप्रतीतौ तेषां सविकल्पमनोऽक्षज्ञानानामविच्छेदप्रतीतिर्या तस्यां सत्याम् । नहि १५ तदन्यव्यवच्छेदव्यवसायात्मसंविदामभावे तदविच्छेदप्रतीतिः । किं ताभिः कर्त्तव्यम् तज्ज्ञानैरेव तत्प्रतीतिसद्भावादिति चेत्; अत्राह - तत्रैव हि इत्यादि । तत्रव तास्वेव व्यवसायात्मकसंवितिषु सतीषु हिर्यस्माद् विच्छेदस्य अन्यतो व्यावृत्तेरनुपलक्षणं युक्तम् न पुनरविकल्पज्ञानेषु सत्सु । कुतः ? इत्याह- तद् इत्यादि । तेषां न विकल्पज्ञानानां स्वापादिनाऽविशेषात् । ननु[यतः]स्पष्टनिर्भासाऽन्यविकल्पज्ञानानि इति, [त]त एव तदुपलक्षणमिति चेत्; अत्राह - २० स्पष्टनिर्भासेऽपि इत्यादि । ततः तदन्यवच्छेद व्यवसायात्मनां च सहभावः प्रसज्येत इति । स्यान्मतम् - षण्णां धियाम् अनन्तरमेकं सविकल्पमनोज्ञानं तदव्य (तदध्य) वसायि जायते, ततोऽयमदोष इति; तन्न; अनेकान्तप्रसङ्गादिति प्रतिपादितम् । एतदेव दर्शयन्नाह - स्पष्टस्य इत्यादि । [स्पष्टस्यालातचक्रादेर्विभ्रमस्यापि वीक्षणात् । स्वलक्षणोपलब्धीनां नैकक्षणिकदर्शनम् ॥२७॥ ७३३ प्रतिक्षणं निरंशक्षणिक परमाणुषु प्रत्यक्षेषु परस्परासम्प्लवे कुतश्चक्रभ्रान्तिः ? सा च भवन्ती कथमनेकान्तसिद्धिर्न भवेत् तदुपलम्भानुपलम्भयोर्विरोधात् ।] Jain Education International भिन्नप्रक्रमः अपिशब्दः, ततो न केवलम् अन्तरेक विकल्पविभ्रमस्य अपि तु स्पष्टस्यापि अलातचक्रादेः [ ५७१] विभ्रमस्य वीक्षणात् 'अनेकान्तसिद्धिः' इत्युपम्कारः । ३० (१) सविकल्पमनोऽक्षज्ञानैरेव । For Personal & Private Use Only २५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456