Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 393
________________ ७४६ सिद्धिविनिश्चयटीकायाम् [१२ निक्षेपसिद्धिः निर्विकल्पात् प्रत्यक्षात् कुतो नैव सिद्धिः तत्त्वप्रतिपत्तिः[७७७ख] सिद्धिश्चेद् यदि निर्णयात्मिका सविकल्पात् कुतः सिद्धिः तत्त्वं चेत् तस्य(नास्य)सविकल्पस्य गोचर इति स्वापाविशेषप्रसङ्गः । कारिकां विवृण्वन्नाह-पर्यायतत्त्वम् इत्यादि । जीवे अजीवे वा पर्यायतत्त्वं निक्षिपन् ५ योजयन् सौगतः न प्रत्यक्षतो निक्षेप्तुं योजयितुमर्हति । कुतः ? इत्याह-तद् इत्यादि । तद् इत्यनेन प्रत्यक्षमविकल्पकं प्रत्यवमृशति । तदपि कुतः ? इत्याह-समारोप इत्यादि । तदनभ्युपगमे दूषणमाह-अन्यथा इत्यादि । विकल्पतो निक्षेप्तुमर्हति इति चेत् ; अत्राहनापि इत्यादि । कुतः ? इत्याह-तद्भावाविषयत्वात् पर्यायसत्ताऽगोचरत्वाद् विकल्पस्य । हेत्वन्तरमाह-विपक्ष इत्यादि । विपक्षी द्रव्यतत्त्वं तत्र अविशेषाच्च तस्य । अथ अनुमान१० विकल्पाद् (ल्पो) वस्तुप्रतिबन्धेन प्रमाणम् , तन्निक्षेप्तुमर्हतीत्युच्यते ; तत्राह-[स्व]लक्षण दर्शन इत्यादि । स्वलक्षणमात्रतत्त्वमिति यदर्शनं मतं तस्मिन् स्वलक्षणदर्शने अङ्गीक्रियमाणे प्रभवविकल्पस्यापि हेतुफलनिर्णयस्यापि न केवलं तादात्म्यनिर्णयस्य सर्वथा मिथ्यात्वात् कुत एव भावनिक्षेपः ? हेतुफलभावोऽपि विकल्पसाध्यै (ध्यो) नाविकल्पसाध्य इति मन्यते । स्यान्मतम्-भवतु प्रभवविकल्पः सर्वथा मिथ्या, तथापि तत एव व्यवहारं(र)भङ्गभयात् १५ हेतुफलभावं प्रतिपाद्य अनुमानानुमेयव्यवहारं प्रतियन्ति सौगताः ततोऽनुमानविकल्पात् तन्निक्षेप इति ; तत्राह-तदुपेक्षित इत्यादि । स क्षणस्थायी निरंशः [५७८क] उपेक्षितोऽवज्ञातः सत्त्वार्थो यैः सौगतैः तैः यथाविकल्पप्रतिभासनं विकल्पप्रतिभासनानतिक्रमेण निक्षेपकरणे द्रव्यनिक्षेपोऽपि किन्न स्यात् ? तंत्रापि कल्पनया हेतुफलभावस्य अनुमानादिव्यवहारनिमित्तस्य भावादिति भावः। २० ननु परमार्थतो निरंशं प्रतिभासाद्वैततत्त्वम् अन्यत् सर्व मिथ्या विकल्पबुद्धरुपलव__मात्रम् , तद्वशात् पर्यायतत्त्वनिक्षेप इति चेत् ; अत्राह-मिथ्या इत्यादि । [मिथ्याविकल्पनिक्षेपे संग्रहः संश्रितो वरम् । सन्तानान्तरमुत्सृज्य क्षणभङ्गमनन्वयम् ॥१०॥ सर्वमेकात्मकं तत्त्वं केवलमविद्या आत्मनि विनिर्भासभेदादसतां जन्म दर्शयतीति २५ एतावता सर्व सुस्थितम् । नहि भेदलक्षणं । स्वयं 'न चापरम् । तदशक्यः "नहि व्यापारव्याहारादिनिर्भासज्ञानं स्वोपादानप्रकृतेर्भवितुमर्हति इति किं कारणान्तरकल्पनया ? मिथ्यकान्त] मिथ्याविकल्पेन निक्षेपे पर्यायतत्त्वयोजने अभ्युपगम्यमाने संग्रहसंमृतो (संग्रहः संश्रितो)वरम् । किं कृत्वा ? इत्याह-क्षणभङ्गमुत्सृज्य त्यक्त्वा । किंभूतम् ? (१) अनिर्णयात्मकत्वात् । (२) व्यवच्छेदकत्वाभावात् । (३) अतिप्रसङ्गात् । (४) विकल्पतः । (५) परम्परया । (६) द्रव्यनिक्षेपेऽपि । (७) अद्वैततत्त्वस्वीकारात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456