________________
७४६
सिद्धिविनिश्चयटीकायाम् [१२ निक्षेपसिद्धिः निर्विकल्पात् प्रत्यक्षात् कुतो नैव सिद्धिः तत्त्वप्रतिपत्तिः[७७७ख] सिद्धिश्चेद् यदि निर्णयात्मिका सविकल्पात् कुतः सिद्धिः तत्त्वं चेत् तस्य(नास्य)सविकल्पस्य गोचर इति स्वापाविशेषप्रसङ्गः ।
कारिकां विवृण्वन्नाह-पर्यायतत्त्वम् इत्यादि । जीवे अजीवे वा पर्यायतत्त्वं निक्षिपन् ५ योजयन् सौगतः न प्रत्यक्षतो निक्षेप्तुं योजयितुमर्हति । कुतः ? इत्याह-तद् इत्यादि ।
तद् इत्यनेन प्रत्यक्षमविकल्पकं प्रत्यवमृशति । तदपि कुतः ? इत्याह-समारोप इत्यादि । तदनभ्युपगमे दूषणमाह-अन्यथा इत्यादि । विकल्पतो निक्षेप्तुमर्हति इति चेत् ; अत्राहनापि इत्यादि । कुतः ? इत्याह-तद्भावाविषयत्वात् पर्यायसत्ताऽगोचरत्वाद् विकल्पस्य ।
हेत्वन्तरमाह-विपक्ष इत्यादि । विपक्षी द्रव्यतत्त्वं तत्र अविशेषाच्च तस्य । अथ अनुमान१० विकल्पाद् (ल्पो) वस्तुप्रतिबन्धेन प्रमाणम् , तन्निक्षेप्तुमर्हतीत्युच्यते ; तत्राह-[स्व]लक्षण
दर्शन इत्यादि । स्वलक्षणमात्रतत्त्वमिति यदर्शनं मतं तस्मिन् स्वलक्षणदर्शने अङ्गीक्रियमाणे प्रभवविकल्पस्यापि हेतुफलनिर्णयस्यापि न केवलं तादात्म्यनिर्णयस्य सर्वथा मिथ्यात्वात् कुत एव भावनिक्षेपः ? हेतुफलभावोऽपि विकल्पसाध्यै (ध्यो) नाविकल्पसाध्य इति मन्यते ।
स्यान्मतम्-भवतु प्रभवविकल्पः सर्वथा मिथ्या, तथापि तत एव व्यवहारं(र)भङ्गभयात् १५ हेतुफलभावं प्रतिपाद्य अनुमानानुमेयव्यवहारं प्रतियन्ति सौगताः ततोऽनुमानविकल्पात् तन्निक्षेप
इति ; तत्राह-तदुपेक्षित इत्यादि । स क्षणस्थायी निरंशः [५७८क] उपेक्षितोऽवज्ञातः सत्त्वार्थो यैः सौगतैः तैः यथाविकल्पप्रतिभासनं विकल्पप्रतिभासनानतिक्रमेण निक्षेपकरणे द्रव्यनिक्षेपोऽपि किन्न स्यात् ? तंत्रापि कल्पनया हेतुफलभावस्य अनुमानादिव्यवहारनिमित्तस्य
भावादिति भावः। २० ननु परमार्थतो निरंशं प्रतिभासाद्वैततत्त्वम् अन्यत् सर्व मिथ्या विकल्पबुद्धरुपलव__मात्रम् , तद्वशात् पर्यायतत्त्वनिक्षेप इति चेत् ; अत्राह-मिथ्या इत्यादि ।
[मिथ्याविकल्पनिक्षेपे संग्रहः संश्रितो वरम् ।
सन्तानान्तरमुत्सृज्य क्षणभङ्गमनन्वयम् ॥१०॥
सर्वमेकात्मकं तत्त्वं केवलमविद्या आत्मनि विनिर्भासभेदादसतां जन्म दर्शयतीति २५ एतावता सर्व सुस्थितम् । नहि भेदलक्षणं । स्वयं 'न चापरम् । तदशक्यः "नहि व्यापारव्याहारादिनिर्भासज्ञानं स्वोपादानप्रकृतेर्भवितुमर्हति इति किं कारणान्तरकल्पनया ? मिथ्यकान्त]
मिथ्याविकल्पेन निक्षेपे पर्यायतत्त्वयोजने अभ्युपगम्यमाने संग्रहसंमृतो (संग्रहः संश्रितो)वरम् । किं कृत्वा ? इत्याह-क्षणभङ्गमुत्सृज्य त्यक्त्वा । किंभूतम् ?
(१) अनिर्णयात्मकत्वात् । (२) व्यवच्छेदकत्वाभावात् । (३) अतिप्रसङ्गात् । (४) विकल्पतः । (५) परम्परया । (६) द्रव्यनिक्षेपेऽपि । (७) अद्वैततत्त्वस्वीकारात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org