________________
१२।९ ]
निक्षेपविचारः
७४५
•
न हि पुनः एतदपि तादृगेव । शब्दो निर्णयो वा तत्त्वाप्रत्यायनात् किं कुर्वाणोऽन्यापोहं करोति ? प्रतिपत्रभिप्रायानुसरणेऽपि यथा अन्यापोहोऽर्थः तथैव स्वार्थप्रत्यायनमविशेषात् । अन्यथा - ]
"
शब्दनिर्ण[य] योः सम्बन्धी यः । कः ? इत्याह- अन्यापोहैकान्तसमाश्रयः । किंभूतः ? प्रतिपन्नः सौगतेन अङ्गीकृतः । स किम् ? इत्याह- प्रतिव्यूढो [५७७क] ५ निरस्तः । केन ? इत्याह- अनया दिशा 'स्वामेव वृत्तिं स्ववाचा' इत्यादिना मार्गेण । कारकार्थं स्पष्टयति नहि इत्यादिना । गतार्थमेतत् । सविकल्पं तत्साधयतीति चेत् ; अत्राह - पुर (पुन) रित्यादो (दि । एतदपि ताद्यगेव ।
निर्विषयो विकल्पः, तथापि अन्यापोहकरणात् व्यवहारोपयोगी इति चेत्; अत्राह - किं कुर्वाण इत्यादि । किं कुर्वाणः न किंचित्कुर्वन् शब्दो निर्णयो वा अन्यापोहं करोति १० इत्युच्यते । एवं मन्यते - यदि संः तत्त्वं विषयीकरोति ; तदैत भूत्वमन्यतोऽस्मात् चाक्काद्यावृत्तमिति(तदा एतत्तत्त्वमन्यतः अन्यस्माद् वाक्याद् व्यावृत्तमिति ) प्रतिपद्यमानः अन्यापोहं करोति इत्युच्यते अन्यथा वचनमात्रकमिति । तदाह - तत्त्वाप्रत्यायनादिति ।
ननु परमार्थतोऽन्यापोहकरोऽप्यसौ न भवति, केवलं प्रतिपत्रभिप्रायवशादेवमुच्यते इति चेत् ; अत्राह - प्रतिपत्रभिप्राय इत्यादि । ' शब्दादे [र्व ]स्तुनो नित्यादिव्यावृत्तिरेव अनित्यादि - १५ शब्दनिर्णयाभ्यां क्रियते, न वस्तु विधिरूपतया विषयीक्रियते ' इति यः प्रतिपत्तॄणामभिप्रायः तस्यानुसरणेऽपि यथा अन्यापोहः शब्दनिर्णययोरर्थः तथैव स्वार्थप्रत्यायनं तदभिप्रायस्य तत्राप्यविशेषात् । युक्तिबाधनमुभयत्र ।
तदनङ्गीकरण (णे) दूषणमाह - अन्यथा इत्यादि । एवं मन्यते - अन्यापोहः पर्युदासरूपः, प्रसज्यरूपो वा स्यात् ? प्रथमपक्षे तैयोर्वस्तुविषयत्वम् । अन्यत्र ; अन्यथा इत्यादि दूषणमिति । २० तदाह - निर्विकल्पात् इत्यादिना ।
• [ निर्विकल्पात् कुतः सिद्धि: ? सिद्धिश्चेन्निर्णयात्मिका । सविकल्पात् कुतः सिद्धिः ? तत्त्वं चेन्नास्य गोचरः || ९ ||
जीवे अजीवे वा पर्यायतत्त्वं निक्षिपन् सौगतो न प्रत्यक्षतो निक्षेप्तुमर्हति तद् [अनिर्णयात्मकत्वात् ] समारोप [व्यवच्छेदकत्वाभावात् ] अन्यथा [ अतिप्रसङ्गात् ] २५ नापि विकल्पतः ; तद्भावाविषयत्वात् विपक्षाविशेषाच्च । स्वलक्षणदर्शने प्रभवविकल्पस्यापि सर्वथा मिथ्यात्वात् कुत एव भावनिक्षेपः ? तदुपेक्षिततत्त्वार्यैः यथाविकल्पप्रतिभासनं निक्षेपकरणे द्रव्यनिक्षेपोऽपि किन्न स्यात् १ ]
(१) पृ० ७४४ । (२) शब्दो निर्णयो वा । (३) शब्दोऽनित्यः इत्यत्र । ( ४ ) “तेनान्यापोहविषयाः प्रोक्ताः सामान्यगोचराः । शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसंभवात् ॥ - अन्यापोहविषया आचार्येण प्रोक्ताः । अपोहः शब्दलिङ्गाभ्यां प्रतिपाद्यते इति ब्रुवता । " - प्र० वा०, मनोरथ० ३ । १३३ । ( ५ ) शब्द निर्णययोः । (६) प्रसज्यपक्षे |
९४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org