________________
७४४
सिद्धिविनिश्चयटीकायाम् [१२ निक्षेपसिद्धिः ज्ञानं ग्राह्याकारविविक्तमात्मस्वभावमननुभवत सत्ताधाकरमात्मनोऽनुभवत् पर्यायकान्तकल्पनामस्तंगमयेत् क्षणक्षयादि[प्रतिभासाभावात् ] । तत एव स्वभावनैरात्म्यं प्रतिपद्यमानः स्वामेव वृत्तिं स्ववाचा विडम्बयति आप्तागमविलोपात् । प्रमाणमन्तरेण तदभावप्रतिपत्तौ भावप्रतिपत्तिरेव किन्न स्यादिति यत्किञ्चिदेतत्, प्रस्तुतेतर५ कथनात् ।
विज्ञानं द्रव्यसाधनम् । किंकुर्वत् ? इत्याह-संविदत् । किम् ? इत्याहग्राह्यनिर्भासवैकल्यात्मानं ग्राह्यो निर्भासो ग्राह्याकारः तस्य वैकल्यम् अभावः तदेव आत्मा स्वभावः तम् । कस्य ? इत्याह-आत्मनः । पुनरपि किंकुर्वत् ?. इत्याह-कथंचित् सच्चेतनादिप्रकारेण स्वम् आत्मानं संविदत् । एवं मन्यते-तत्सामान्यैकस्थूलस्वभावो १० बहिरिव ज्ञानस्यापि यदि नास्ति, ज्ञानं तर्हि ततः तत्त्वतो भिन्नम् , तद्भेदं च आत्मनो यदि
जानाति; तदेव न तद्धान्तिः । नहि नीलज्ञानं पीताद्भिन्नम् आत्मानं प्रतिपद्यमानं तत्र भ्रान्तम् । अथ तत्स्वभावं पश्यति, स्वं च ततो भिन्नं ततोऽयमदोषः; निराकारदर्शनम्, *"नान्योऽनुभाव्यो बुद्ध्यास्ति" [प्र० वा० २।३२७] इत्यादि विरोधश्च । [५७६ ख] असत इव
सतोऽपि भिन्नस्य वेदनसंभवाद् बहिरर्थसिद्धिः । तत्र च विभ्रमे; तत्र विभागप्रसाधनात् । अथ १५ ततो विवेकमात्मनो नावैति'; अनेकान्तसिद्धिरिति ।
कारिकार्थमुपदिशति 'ज्ञानम्' इत्यादिना । ज्ञानम आत्मनः स्वभावम् । किंभूतम् ? ग्राह्याकारविविक्तम् अननुभवत् सत्यता(सत्ता)द्याकारमात्मनोऽनुभवत् । किं कुर्यात् ? इत्याह-पर्यायैकान्त इत्यादि । इतश्च तत्कल्पनामस्तु ग(स्तङ्ग)मयेत् ; इत्याह-क्षणक्षयादि।
इत्यादि । 'तर्हि ग्राह्याकारविविक्तं (क्त) स्वभावमिव सत्ताद्याकारमपि आत्मनो नानुभवति' इति २० शून्यवादी ; तत्राह-तत एव इत्यादि। तत एव अनन्तरन्यायात् स्वभावनैरात्म्यं सकल
शून्यत्वं प्रतिपद्यमानः सौगतः स्वामेव वृत्तिं स्वचेष्टितं शून्यताद्यभ्युपगमलक्षणं स्ववाचा विडम्बयति वित्सारयति, तत्प्रतिपादकवचनाभ्युपगमे तैदयोगात् ।
न्यायान्तरं ज्ञातुं परः पृच्छति । कथमितं(ति) ? तं प्रत्युत्तरमाह-आप्तागम इत्यादि । तंद्विलोपः तत्त्वत इष्यते, संवृत्या तदभ्युपगमादिति चेत् ; अत्राह-प्रमाणमन्तरेण तदभाव२५ प्रतिपत्तौ तेषाम् आप्तादीनाम् अभावसंवित्तौ अङ्गीक्रियमाणायां भावप्रतिपत्तिरेव आत्मादीनां किन्न स्यात् भवेदेव[इति] यत्किञ्चिदेतत् न किंचिदेतत् परमतम् । कुतः ? इत्याहप्रस्तुतेरत (प्रस्तुतेतर) ईत्यादि। [एतदन्यत्रातिदिशन्नाह-शब्द इत्यादि ।
[शब्दनिर्णययोरन्यापोहैकान्तसमाश्रयः ।
प्रतिपन्नः सौगतेन प्रतिव्यूढोऽनया दिशा ॥८॥ (1) स्वस्वरूपम् । (२) इति चेत् । (३) प्रतिभासाभावात् । (४) शकलशून्यताऽयोगात्, वचनस्य सद्भावस्वीकारात् । (५) आप्तागमविलोपः । (६) 'कथनात्' इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org