________________
७४३
१२।६-७ ] न क्षणिकस्वलक्षणस्य प्रतिभासः
७४३ पश्यन् स्वलक्षणमेव पश्यतीति चेत् ; अत्राह-स्वतश्च इत्यादि ।
[स्वतश्च कार्यतोऽर्थानां संवित्तिः सम्प्रतीयते ।
द्रव्यात्मनां वाऽशुद्धानां शुद्धानां न चान्यथा ॥५॥ न हि प्रत्येयम् । बहिरन्तश्च कथम् ?]
स्वतः स्वरूपेण कार्यतः फलरूपेण च अर्थानां संवित्तिः संवेदनं सम्बन्धि संप्र- ५ तीयते । किंभूतानाम ? इत्याह-द्रव्यात्मनाम् द्रव्यस्वभावानाम् । पुनरपि किंभूतानाम् ? अशुद्धानां शुद्धानां वा नच नैव अन्यथा अन्यथात्मनां संवित्तिः संप्रतीयते । अनेन स्वभावकार्योपलब्धि (ब्धि) दर्शयति ।
'नहि' इत्यादिना 'न चान्यथा' इति व्याचष्टे, 'प्रत्येयम्' इति पर्यन्तेन । शेषं विवृण्वन्नाह-बहिरन्तश्च इत्यादि । कथमिति प्रश्ने; अवीक्ष्य इत्यादि उत्तरम् ।
[अवीक्ष्य पारिमण्डल्यं स्थूलाकृतीक्षणात् ।
तथा क्षणक्षयं वार्थं वीक्षेरन् द्रव्यतत्त्वतः ॥६॥ पुद्गलानां पारिमण्डल्यादिभेदान् पश्यन्त एव तत्सामान्यमेकं स्थूलं स्वभावं प्रति- . क्षणं पश्यन्ति । प्रत्यक्षबुद्धौ [तथा प्रतिभासनात् तदतिक्रमे तथा तत्क्षणक्षयादिविशे-१५ षमदृष्ट्वैव उभयत्र द्रव्यतत्त्वं पश्यन्त्येव अविशेषात् ।।
__ अवीक्ष्य । किम् ? पारिमण्डल्यं रूपम् । कुतः ? इत्याहा (ह)-स्थूलाकृतीक्षणात् कारणात् तथा क्षणक्षयं वा[s]वीक्ष्य तैत एव [५७६ ख किं वीक्षेरन् ? इत्याहअर्थ वीक्षेरन् । केन ? इत्याह-द्रव्यतत्त्वतो द्रव्यरूपेण ।।
___ कारिकां विवृण्वन्नाह-पुद्गलानाम् इत्यादि । पुद्गलानां परमाणुरूपाणां पारि-२० मण्डल्यादिभेदान् पश्यन्त एवजनाः। किं कुर्वन्ति ? पश्यन्ति । किम् ? इत्याह-तद् इत्यादि। तेषां पुद्गलानां सामान्यमेकं स्थूलं स्वभावे (वम् )। कदा ? इत्याह-प्रतिक्षणम् । कुतः ? इत्याह-प्रत्यक्षबुद्धौ इत्यादि । तदपि कुतः ? इत्याह-तदतिक्रम इत्यादि । तस्य तथाप्रतिभासस्य अतिक्रम इत्यर्थः । तथा तेन प्रकारेण तेषां क्षणक्षयादिविशेषमदृष्टैव(ष्ट्रव) द्रव्यतत्त्वं पश्यन्त्येव । क ? इत्याह-उभयत्र बहिरन्तश्च । कुतः ? अविशेषात् । २५
स्यान्मतम् , तत्सामान्यैकस्थूलस्वभावस्य घनादितद् (नादिवत्) बहिरन्तश्च भ्रान्तत्वेनायोगात् , अतोऽन्यदेवाद्वयं ज्ञानतत्त्वमिति; तत्राह-विज्ञानम् इत्यादि ।
[विज्ञानं ग्राह्यनिर्भासवैकल्यात्मानमात्मनः ।
संविदत्स्वं कथञ्चिच्चेदात्मानं द्रव्यसाधनम् ॥७॥ (१) विपरीतस्वरूपाणाम् । (२) स्थूलाकृतीक्षणादेव । (३) तथा प्रतिभासनात् इति । (४) यथा दूरविरलतरुषु एकं वनमिति प्रत्ययो भ्रान्त्या भवति, यथा वा एकं घनं सघनमिति वा प्रत्ययः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org