________________
७४२
३०
सिद्धिविनिश्चयटीकायाम्
स्वस्मात् ''स्वप्नादौ विशेषविप्लवेऽपि सन्मात्रे विप्लवमपश्यतां शुद्धद्रव्यग्रहः । ज्ञाने अर्थवति सकृत् स्वार्थस्वभावप्रकाशन भ्रान्तिरपि स्यात् । भ्रान्तिज्ञानं पुनः तन्न ५ तथा अवग्रहादिभिः विकल्पयन् अवश्यं स्वपरस्वभावविवेकी । तन्न सर्वथा ।] अविकल्पा ( अ ) विच्छिद्य । किम् ? इत्याह- स्वम् आत्मानम् । कुतः ? इत्याह- अन्यस्मात् । किंभूतात् ? इत्याह- अचेतन इत्यादि, सस्मान्मद् (तस्मात्, यत् ) अविकल्पे (इ) ति च द्रष्टव्यम् । सत्तामात्रं पश्यन् दर्शनेन विषयीकुर्वन् आत्मा 'शुद्धस्य' इति दर्शितम् । तथाहि - यस्य विशेषस्य यद्ग्रहणं तत् तत्सामान्यग्रहणपूर्वकं १० यथा स्थाणुपुरुषत्वविशेषावायद्व [य] ग्रहणं तदूर्ध्वता सामान्यग्रहणपूर्वकम्, सामान्यविशेषग्रहणं 'च अवग्रहज्ञानम्, ततः तदपि तत्सामान्यग्रहणपूर्वकम् । न च सत्तातोऽपरं सामान्यम्, यतोऽनवस्था स्यात् । नापि तद्ग्रहणं विशेषग्रहणम् ; यतो हेतोर्व्यभिचारः । सः पश्यन् किं करोति ? [इति] आह-विजानाति द्रव्यादि विशिष्टं द्रव्यं जानाति । कैः ? इत्याह- मतिभेदैरेव (ख) ग्रहादिभिः । किं कुर्वन् ? विकल्पयन् व्यवस्यन् । अनेन 'अशुद्धस्य' इति १५ कथितम् ।
1
[अविकल्प्य स्वमन्यस्मात् सत्तामात्रमचेतनात् । पश्यन् विजानाति द्रव्यादि मतिभेदैर्विकल्पयन् ॥४॥
स्वस्मादि[त्या] दि ना कारिकार्थमाह । ननु विषस्या (विशेषस्या ) ग्रहणे कथं द्रव्यस्य ग्रहणं त॑योर्भेदप्रसङ्गादिति चेत्; अत्राह - विप्लवेऽपि इत्यादि । स्वप्नादौ आदिशब्देन तैमिरकादिदशापरिग्रहः, तत्र, यो विशेषेषु स्वशरीरादिकृस्ट (कृश) त्वादिभेदेषु विप्लवः अन्यथाग्रहः तस्मिन्नपि, न केवलमविलवे साति (सति ) सिद्धः । कः ? इत्याह- शुद्धद्रव्यग्रहः । केषाम् ? २० इत्याह-विप्लवमपश्यताम् । क्षे (क ? इ) त्याह- सन्मात्रे इति । एतदुक्तं भवति - यथा स्थौल्यादिग्रहणविप्लवे स्वशरीरादिकाद्य (s) ग्रहणे पुतणत् (?) तथा विशेषाग्रहणेऽपि सन्मात्रग्रहणमिति । स्वप्नादौ यद्यर्थग्रहणं कथं [ ५७५ख ] विप्लवसंभवः यतः तन्निरासार्थ प्रमाणलक्षणप्रणयनमिति चेत् ? अत्राह - ज्ञाने । किंभूते ? अर्थवति । सकृदेकहेलया | स्वार्थयोः स्वार्थस्य वा स्वभावाः कार्यादयः तेषा प्रकाशनं तस्य भ्रान्तिरपि न केवलम् अभ्रान्तिः २५ स्यात् । तथाहि-अरिष्टे बाहुस्थौल्यदर्शिनः तत्कार्यमपश्यन्तोऽपि बाहुं पश्यन्ति, तददर्शने वा नारिष्टदर्शनं विपरीतदर्शनाभावात् 'मदीयोऽयं बांहु : ' अविसंवादश्च न स्यादिति । शेषं चिन्तितमत्र |
Jain Education International
[ १२ निक्षेप सिद्धिः
"
भवत्वेवं [त]तः किम् ? इत्याह - भ्रान्तिज्ञानम् इत्यादि । स्वप्नेत्यादिविप्लवज्ञानं पुनः । शेषं पूर्वं व्याख्यातम् । उपसंहरन्नाह - तन्न इत्यादि । तथा तेन भ्रान्तिज्ञानप्रकारेण अवग्रहादिभिः विकल्पयन् वा अवस्यन् नावश्यं स्वपरस्वभावविवेकी । तन्न इत्यादि अत्रोपसंहारः । कुतः ? इत्याह - सर्वथा इत्यादि ।
(१) विशेष - द्रव्ययोः ।
For Personal & Private Use Only
www.jainelibrary.org