________________
१२३ ]
निक्षेपनिरूपणम्
७४१
नामानन्तरं स्थापनाभेदमाहह - स्थापना इत्यादिना । कुतः ? इत्याह- सद्भाव इत्यादि । सद्भावस्थापना(नां) व्याचष्टे तत्र इत्यादिना । किमनया प्रयोजनम् अन्य यात्ति (थाप्ति) तया इति सौगतः ; सोऽयं घोटकारूढोऽपि विस्मृतघोटको जातः । स्वयं बहिरर्थ सदृशे ज्ञाने 'तद्व्यवहारप्रवर्त्तनात् । असद्भावस्थापनामाह - 'अतोऽन्या' इत्यादिना । विकल्पाकारे अर्थसदृशे अर्थव्यवहारं प्रवर्त्तयन् यदि 'मामनर्थिकां ब्रूयात् तथैव परिहर्त्तव्यः ।
द्रव्यनिक्षेपमाह-द्रव्य इत्यादिना । कः ? इत्याह - [ ५७४ ] विवक्षितश्चासौ असाम्प्रतिकोsarगतः पर्यायविशेषश्च तत्र स्थितिर्यस्य स तथोक्तः ।
दृश्ये प्राप्यसमापं कुर्वन् प्रत्यक्षमानता । निमित्तं द्रव्यनिक्षेपं कः क्षेप्तुं क्षमते जनः ॥
तद्भेदमाह-आगम इत्यादिना ।
भावनिक्षेपमाह-तथोपयोग इत्यादिना । तथैव विवक्षितप्रकारेणैव उपयोगो व्यापारः परिणामो लक्षणं यस्य स तथोक्तः 'आगमनोआगमप्रभेद:' इति अनुवर्त्तते भावनिक्षेप इति । किं चत्वार एव भेदा निक्षेपस्य ? न, इत्यादि (त्याह - ) स निक्षेपो व्यासतोऽनन्तविकल्पः प्रतिपत्तव्यः । कुतः ? इत्याह- तद्भेद इत्यादि यतः । एतदपि कुतः ? इत्याह- चेतनेतर इत्यादि । पुनरपि कुतः ? इत्याह-सकल इत्यादि । एतदेव अनन्तरं दर्शयन्नाह - भाव इत्यादि ।
[tra: पर्यायार्थिकस्य शेषा द्रव्यार्थिकास्त्रयः । प्रस्तुतव्याक्रियार्थः क्रियन्ते [ तत्त्वदर्शिभिः ] ॥३॥ पर्यायमात्र',··· तथा द्रव्यार्थिकस्य प्रत्येतव्यः नाम सर्वथा शुद्धस्य अशुद्धस्य च द्रव्यस्यैवोपलब्धिः |]
(१) अर्थ व्यवहार । (२) स्थापनाम् । ( ३ ) प्रत्यक्षप्रमाणता । ( ४ ) “ नामं ठवणा दविए ति एस दव्वद्वियस्स निक्खेवो । भावो उ पज्जवट्ठिअस्स परूवणा एस परमत्थो ॥ " - सन्मति ० १६ । (५) द्रव्यार्थिकः ।
Jain Education International
१०
I
भावः भावनिक्षेपः [पर्यायार्थिकस्य ] शेषा निक्षेपाः द्रव्यार्थिक (काः) क्रियन्ते । [कति ?] इत्याह- त्रयः । कुतस्तेऽभ्युपगम्यते (न्ते ) ? इत्याह- प्रस्तुत इत्यादि । कारिकां विवृण्वन्नाह-पर्यायमात्रम् इत्यादि । राजपथीकृतमेतदनेकधा । तथा तेन प्रकारेण द्रव्यार्थिकस्य प्रत्येतव्ये (व्यः ) निक्षेपः । कुतः ? इत्याह- नाम इत्यादि । नहि पर्यायमात्रे तत्संभवः । न खलु द्रव्यमस्ति, अनुपलब्धेः खरविषाणवत्, तत्कथं तद्वान् नयः, यस्य २५ नामादिनिक्षेपः स्यादिति चेत्; अत्राह - सर्वथा इत्यादि । सर्वेण प्रत्यक्षानुमानप्रकारेण बहिरन्तःप्रकारेण भ्रान्तेतरप्रत्ययाकारणे (कारण) द्रव्यस्यैव उपलब्धिः । किंभूतस्य ? इत्याहशुद्धस्य निर्विशेषणस्य अशुद्धस्य सविशेषण [स्य ] [ ५७५क] ।
तदुपलब्धि दर्शयन्नाह - अविकल्प (ल्प्य ) इत्यादि ।
For Personal & Private Use Only
१५
२०
www.jainelibrary.org