________________
७४०
सिद्धिविनिश्चयटीकायाम्
[ १२ निक्षेप सिद्धिः
इति व्यासतो विस्तारतः अङ्गप्रविष्ट - अङ्गबहिः श्रुतविकल्पकः । आ चारा दी अङ्गानि तेषु प्रविष्टं तदन्तर्भूतम् । यच्छ्रुतम् अङ्गेभ्यो बहिः श्रुतं तस्य विकल्पा भेदा यस्य स तथोक्तः ।
कारिकां व्याचष्टे - -यस्य इत्यादिना । [ ५७३ ख] यस्य कस्यचित् चेतनस्य इतरस्य ५ वा अनिर्दिष्टविशेषस्य संज्ञाकर्म । किम् ? नाम । किंभूतम् ? इत्याह- निमित्तान्तरानपेक्षम् यस्य तत्कर्म क्रियते तत्तस्य निमित्तं ततोऽन्यज्ञा ( तू जा ) त्यादिकं तदन्तरम्, तस्मिन् अनपेक्षा यस्य तत्तथोक्तम् । तस्य नाम्नो भेदं दर्शयन्नाह - व्यस्त इत्यादि । अश्च चो ( अतशचो) दाहार्य (र्यं) ‘नाम' इति सम्बन्धः । कुतः ? इत्याह-व्यस्तश्च समस्तश्च एकश्च अनेकश्च ते एव जीवाः (जीवाजीवाः) ते विषयो (या) यस्य तत्तथोक्तम् तस्य भावः तत्ता तस्याः उपपत्तेः । तथा १० [व्य]स्तजीवविषयतोपपत्तेः, अयं मांसपिण्डो देवदत्तः अयं देवदत्त इत्यादिवत् । समस्तजीवविषयतोपपत्तेः, एते सर्वे गर्गादय इत्यादिवत् । एकजीवविषयतोपपत्तेः, नाभेयः पुरुदेव इत्यादिवत् । अनेकजीवविषयतोपपत्तेः अयं डित्थः अयं डवित्थः अयं जिनदत्त इति चत्वारो जीवभेदाः । तथा व्यस्ताऽजीवविषयतोपपत्तेः "स (सः) " [जैनेन्द्र० १।३।२] *" नुत्य (नुवा)" [जैनेन्द्र० ४।४।४] * " क्यच ( क्यचि ) " [जैनेन्द्र० ५ | २ | १४२] इत्यादि । समस्ताजीवविषयतोपपत्तेः * "भूवादयो धुः " [ जैनेन्द्र० १|२| १] इत्यादिवत् । एकाजीवविषयतोपपत्तेः आकाशं कालो धर्मः अधर्म इत्यादिवत् । अनेकाजीवविषयतोपपत्तेः "तौ सत्" [जैनेन्द्र० २।२।१०५] इतिवत् । एतेऽपि चत्वारो विकल्पाः । किं पुनः निमित्तान्तरं यदनपेक्षं तदुच्यते ? इत्याह-निमित्तान्तरं पुनः इत्यादि । 'गौः' इत्येवमादौ जाति:' । ' दण्डी' इत्येव - arat द्रव्यम्' । 'शुक्लः पटः' इत्यादौ गुणः । ' पाचकः' इत्यादौ क्रिया । जत्यादिद्वारेण २० अन्यत्र शब्दवृत्तेः ।
१५
३०
'ननु जात्यादौ वर्त्तमानः शब्दो यदि निमित्तान्तरमपेक्षते ; अनवस्था [ ५७४ क] | श्च (स्वतः) तत्र वर्त्तते ; अन्यत्रापि तथैव वर्त्ततां किमन्यनिमित्तवृत्तिकल्पनया' इति चेत ; न ; उभयथापि शाब्दव्यवहारस्य दर्शनात् । एवं चोदयतापि प्रज्ञा क रेण प्रत्यक्षज्ञानग्राह्यतापेक्षया बहिरर्थे प्रत्यक्षव्यपदेशः क्रियते, नान्यथा अतिप्रसङ्गात् । अत एव अक्षाश्रितत्वोपलक्षित२५ वैशद्यापेक्षया ज्ञानेषु प्रत्यक्षव्यपदेशः "तदंशः " [ हेतुबि ० पृ० ५३ । ] इत्यत्र धर्मे अंशशब्दः
न किंचिदपेक्ष्य क्रियते । यदि च, *"शब्दाः सङ्क ेतितं प्राहुः " [ प्र०वा० ३।९१] स च सङ्के तो व्यवहारिजनायत्तः, व्यवहारिण एव जानन्ति किं तत्र भवतः प्रयासेन ? तदनुसारि - णा केवलं भवता भाव्यं [ व्य] वहारे अत्य (अध्य) क्षादिचिन्तापि दूरोत्सारिता स्यात् यदि भवदनुसारिणो व्यवहारिणः, ते च शाब्द उभयथा दृश्यन्ते इति यत्किंचिदेतत् ।
७
स्यादेतत् जात्यादिद्वारेण विशेषे शब्दनिक्षेपः किन्नामा स्यात् ? 'स्थापनानामा' इति, अन्यशब्दस्य अन्यत्रारोपाद् अर्हच्छब्दस्य असद्भावस्थापनावत् । अत एव नामानन्तरं स्थापनानिर्देशः । (१) नाम क्रियते । (२) निमित्तान्तरम् । (३) अजीवस्य । (४) गोत्वजातिः । (५) दण्डद्गव्यम् । (६) पचनक्रिया । (७) “तदंशो ही तद्धर्म एव । " - हेतुबि० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org