________________
१२।२] निक्षेपनिरूपणम्
७३९ त[ज् ]ज्ञानहेतुः कुतः ? इत्याह-शब्दार्थप्रत्ययाङ्गम् इति शब्दानु (त्) कारणाद् अर्थस्य घटादेहिकः यः प्रत्ययः तस्या निमित्तम् । एतदपि कुतः ? इत्याह-विरचयति यतः । कम् ? भेदम् । कथम् ? यथाशक्ति । केषाम् ? वाच्यानाम् अभिधेयानाम् । क ? वाचकेषु । यत एवं ततः प्रतिपत्तुः पुरुषस्य श्रुतविषयविकल्पोपपब्धेः उपयोगं निक्षेप इति ।
अस्यानि (अस्मान्नि) बन्धनस्थानादर्थानादाय व्युत्पादयन्नाह-न्यास इत्यादि ।
[न्यासः समासतो नामस्थापनाद्रव्यभावतः ।
व्यासतोऽङ्गप्रविष्टाङ्गबहिःश्रुतविकल्पकः ॥२॥ यस्य कस्यचित् अनिर्दिष्टविशेषस्य निमित्तान्तरानपेक्षं संज्ञाकर्म नाम । व्यस्तसमस्तैकानेकजीवाजीवविषयतोपपत्तेः । 'निमित्तान्तरं पुनः जातिः द्रव्यं गुणः क्रिया । १० स्थापना सद्भावासद्भावभेदेन । तत्र । किमनयेति सौगतः, सोऽयं घोटकारूडोऽपि विस्मृतघोटको जातः । अतोऽन्या असद्भावस्थापना। विवक्षितासाम्प्रतिकपर्यायविशेषस्थितिव्यनिक्षेपः। आगम' । तथैवोपयोगपरिणामलक्षणो भावनिक्षेप इति । स व्यासतोऽनन्तविकल्पः तद्भद 'चेतनेतर 'सकल''] '
न्यासो निक्षेपः समासतः संक्षेपेण नामस्थापनाद्रव्यभावतः एतानाश्रित्य भवति १५
(१) निबन्धनस्थानं मूलसूत्रमिति यावत् । (२) "नाम संज्ञाकर्म इत्यनर्थान्तरम्"-तत्त्वार्थाधि० भा० ११५। "अतद्गुणे वस्तुनि संव्यवहाराथं पुरुषकारान्नियुज्यमानं संज्ञाकर्म नाम ।"-स. सि. ११५। त० वा०, त० श्लो० ११५। विशेषा० गा० ६५। जैनतर्कभा० पृ० २५। बृहत्कल्पभा० गा० ११॥ (३) तुलना"किञ्चिद्धि प्रतीतमेकजीवनाम यथा डिस्थ इति, किञ्चिदनेकजीवनाम यथा यूथ इति, किञ्चिदेकाजीवनाम यथा घट इति, किञ्चिदनेकाजीवनाम यथा प्रासाद इति, किञ्चिदेकजीव-एकाजीवनाम यथा प्रतीहार इति, किञ्चिदेकजीवानेकाजीवनाम यथा काहार इति, किञ्चिदेकाजीव-अनेकजीवनाम यथा मन्दुरेति, किञ्चिदनेकजीवाजीवनाम यथा नगरमिति प्रतिविषयमवान्तरभेदाद् बहुधा भिद्यते संव्यवहाराय नाम लोके ।"-त० श्लो० पृ० ९८ । (४) तुलना-"नाम्नो वक्तुरभिप्रायो निमित्तं कथितं समम् । तस्मादन्यत्तु जात्यादि निमित्तान्तरमिष्यते ॥"-त० श्लो० पृ० ९९ । (५) “यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स्थापनाजीवः । देवताप्रतिकृतिवद् इन्द्रो रुद्रः स्कन्द विष्णुरिति ।"-तत्त्वार्थाधि० भा० ११५। "काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु सोऽयमिति स्थाप्यमाना स्थापना।"-स०सि० ११५। "जं पुण तयत्थसुण्णं तयब्भिपाएण तारिसागारं । कीरह व णिरागारं इत्तरमियरं वसा ठवणा ॥"-विशेषा० गा० २६। “सब्भावमसम्भावे ठवणा पुण इदंकेदुमाईया । इत्तरमणित्तरा या ठवणा णामं तु आवकहं ॥"-बृहत्क० भा० गा० १३ । “सद्भावस्थापनया नियमः, असद्भावेन वाऽतद्पेति स्थूणेन्द्रवत् ।”-नयचक्रवृ० लि. पृ० ३८१॥ जैनतर्कभा० पृ० २५। "आहिदणामगस्स अण्णस्स सोयमिदि वणं ठवणा णाम । सा दुविहा सब्भावासब्भावढवणा चेदि । तत्थ आगारवंतए वत्थुम्मि सब्भावढवणा तविवरीया असब्भावढवणा ।"-धवलाटी. सत्प्ररू० । त० श्लो० पृ० १११। (६) "अनागतपरिणामविशेष प्रति गृहीताभिमुख्यं द्रव्यम्, अतद्भवं वो।"-त. बा० १।५। त० श्लो० पृ० १११ । बृहत्क० भा० गा० १४ । विशेषा० गा० २८। जैनतर्कभा० पृ. २५ । आ.नि. मलय० पृ० ६ । (७) “वर्तमानतत्पर्यायोपलक्षितं द्रव्यं भावः ।"-स० सि०, त० वा० ११५ । त० श्लो. पृ० ११३ । बृहत्क० भा० गा० १५ । आ० नि० मलय० पृ०९।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org