________________
द्वादशमः प्रस्तावः]
[१२ निक्षेपसिद्धिः] नयानन्तरं तत्फलत्वान्निक्षेपान् दर्शयितुं मुखवृत्तमाह-निक्षेपोऽनन्तकल्प इत्यादि ।
[निक्षेपोऽनन्तकल्पश्चतुरवरविधः प्रस्तुतव्याक्रियार्थः, तत्त्वार्थज्ञानहेतुईयनयविषयः संशयच्छेदकारी। शब्दार्थप्रत्ययाङ्गं विरचयति यतस्तद्यथाशक्ति भेदम् ,
वाच्यानां वाचकेषु श्रु तविषयविकल्पोपलब्धेस्ततः सः ॥१॥] धर्मिणि कचिद्धर्माणां नयाधिगतानां निक्षेपणं योजनम् अध्यारोपणं निक्षेपः । स कतिविधः ? इत्याह-अनन्तकल्पः अनन्तभेदः तद्विषयानन्त्यात् ; कथमन्यत्र चतुर्विधो निक्षेप उक्तः ? इत्याह-चतुरवरविधः चत्वारो नामस्थापनाद्रव्यभावलक्षणैः अवर (रा अ)
वान्तररूपा विधा भेदो यस्य स तथोक्तः । सः किंप्रयोजनः ? इत्याह-प्रस्तुतव्याक्रियार्थः। १० प्रस्तावगतं वस्तु प्रस्तुतं [५७३क] तस्य विशेषेण अनिष्टनिवृत्त्यादिलक्षणेन आ समन्तात्
करणं व्युत्पादनं व्याक्रिया तस्मै तदर्थः । कुतः ? इत्याह-तत्त्वार्थज्ञानहेतुः यतः तत्त्वार्था जीवादयः तेषां ज्ञानं तस्य हेतुः कारणम् । नहि शब्दादिनिक्षेपमन्तरेण शब्दादिभ्योऽर्थप्रतीतिः । स किं कारणः ? इत्याह-द्वयनयविषयः नन्यत्र (अयमत्र)भावः-द्वयोपलक्षि
तान्नयात्] द्रव्यार्थिकपर्यायार्थिकरूपादि (द)न्यतो न भवति किन्तु तत एव इति तद्विषय १५ इत्युच्यते । न केवलं त[त्त्वार्थ]ज्ञानहेतुरेव, अपि तु संशयच्छेदकारी विपर्ययादिव्यवेच्छेदोपलक्षणमेतत् । पूर्वेण तत्त्वार्थज्ञानहेतुता अनेन समारोपव्यवच्छेदहेतुता उक्ता इति विभागः ।
(१) "विस्तरेण लक्षणतो विधानतश्चाधिगमार्थ न्यासो निक्षेपः।"-तत्त्वार्थाधि० भा० १।५। "णिच्छए णिण्णए खिवदि त्ति णिक्खेवो।"-धवला टी० सत्प्ररू. । (२) "सः किमर्थः ? अप्रकृतनिराकरणाय प्रकृतनिरूपणाय च।"-स० सि० ११५। लघी० स्ववृ० श्लो० ७६ । “अथ किमिति निक्षेपः क्रियते इति चेत् ; उच्यतेविविधाः श्रोतारः अव्युत्पन्नः अवगताशेषविवक्षितपदार्थः एकदेशतोऽवगतविवक्षितपदार्थ इति । तत्र प्रथमोऽव्युत्पन्नत्वान्नाध्यवस्यतीति विवक्षितपदस्यार्थम् । द्वितीयः संशेते कोऽर्थोऽस्य पदस्याधिकृत इति, प्रकृतार्थादन्यमर्थमादाय विपर्यस्यति वा । द्वितीयवत्तृतीयोऽपि संशेते विपर्यस्यति वा । तत्र यद्यव्युत्पन्नः पर्यायार्थिको भवेन्निक्षेपः ; अव्युत्पन्नव्युत्पादनमुखेन अप्रकृतनिराकरणाय । अथ द्रव्यार्थिकः ; तद्द्वारेण प्रकृतनिरूपणाय अशेषनिक्षेपा उच्यन्ते व्यतिरेकधर्मनिर्णयमन्तरेण विधिनिर्णयानुपपत्तेः । द्वितीयतृतीययोः संशयविनाशायाशेषनिक्षेपकथनम् । तयोरेव विपर्यस्यतोः प्रकृतार्थावधारणार्थ निक्षेपः क्रियते । उक्तं हिअवगयणिवारण? पयदस्स परूवणाणिमित्तं च। संसयविणासणटुं तञ्चत्थवधारणटुं च ॥"-धवला टी. सत्प्ररू० पृ० ३० । (३) “जत्थ य जं जाणेजा निक्खेवं निक्खिवे निरवसेसं । जत्थ वि अ न जाणेजा चउक्कगं निक्खिवे तत्थ ॥"-अनु० सू० ८। (४) तत्त्वार्थसूत्रादौ । (५) "नामस्थापनाद्रव्यभावतस्तन्न्यासः ।"त० सू० १॥४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org