________________
७४७
१२।११]
निक्षेपविचारः अनन्वयं दृष्टान्तरहितम् । अथवा, द्रव्यानश्यति रहित (द्रव्यान्वयविरहितं) सन्तानान्तरं च उत्सृज्य।
____ कारिका व्याचष्टे सर्वम् इत्यादिना । नीलादिसुखादिनान(ज्ञान) सर्वम् एकात्मकम् एकस्वभावं तत्त्वं परमार्थरूपम् । कथं चित्रप्रतिभास इति चेत् ? अत्राह-केवलम् इत्यादि । अविद्या वती(की)दर्शयति । किम् ? इत्याह-जन्म इत्यादि। किंभूता[ना]म् ?असताम् । ५ क ? इत्याह-आत्मनि । कुतः ? इत्याह-निर्भासभेदात्तद्भेदमाश्रित्य इत्येवम् एतावता सर्व सुस्थितम् । स्यादेतत् , प्रतिभासभेदात् विरुद्धधर्माध्यासाच्च नानात्वमेव युक्तमिति कथं सर्वमेकात्मकमिति चेत् ? अत्राह-नहि इत्यादि' भेदलक्षणपर्यन्तं सुगमम् । कुतः ? इत्याह स्वयम् इत्यादि । ततोऽन्यद्भेदलक्षणमिति चेत् ; अत्राह-न चापरम् इत्यादि । प्रकृतं निगमयन्नाहतदशक्य इत्यादि।
ननु माभूदन्वयः, तथापि अन्यथानुपपत्त्या संत्त्वादिकं क्षणभङ्गं साधयति इति चेत् ; अत्राह-नहि [५७८ख] इत्यादि । सुगमम् । कथं सन्तानान्तरव्यसनं वादिनः प्रेक्षाकारितां व्याहन्ति इति चेत् ? अत्राह-व्यापार इत्यादि । व्यापारव्याहारादि] निर्भासज्ञानं स्वोपादानं(न)प्रकृतेरविद्याप्रकृतेः भवितुमर्हति इति एवं हेतोर्वा किं कारणान्तरस्य सन्तानान्तरलक्षणस्य कल्पनया ? कुतः ? इत्याह-मिथ्यकान्त इत्यादि । तत्सिद्धः सन्तानान्तरसिद्धि- १५ रिति । एवं संग्रहमयान् (हनयात् ) कुर्व[त]स्तन्निक्षेपमाह-विद्या इत्यादिना ।
[विद्याविद्याविनिर्भासात् नित्यानित्यत्वसंभवात् ।
स्वार्थस्वरूपयोः सिद्धिः द्वयरूपेति नैगमः ॥११॥ साकल्येन नित्यक्षणिकैकान्तयोः ग्राह्यग्राहकबहिरन्तर्मुखप्रतिभास इति व्यवस्था । २० तत्र स्वसंविन्मात्र नित्यं तावतः सर्वत्राविशेषात् । शेषं कादाचित्कम् । एतदुक्त च
*"अभिन्नः संविदात्मार्थः भाति भेदीव सः पुनः । प्रतिभासादिभेदे स्वापप्रबोधादौ न भिद्यते॥” इति ।
बोधाकारेण सर्वत्राविशेषोऽविप्रतिपत्तेः । तदभावे मिद्धादेरनुपपत्तेः अवस्थाचतष्टयाभावस्तदवस्थ एव । तथा तदागन्तुभिः सुखादिनीलादिनिर्भासैः भेदिनीमिव वृत्ति- २५ मनुभवति ।]
विद्या तत्त्वज्ञानम् अविद्या विप्लवज्ञानं तयोर्विनिर्भासात् प्रतीतेः नित्यानित्यत्वसंभवो य एकत्र तस्मात् स्वार्थस्वरूपयोः स्वस्वरूपस्य अर्थ (अर्थ) स्वरूपस्य च सिद्धिः निष्पत्तिः निर्णीतिर्वा द्वयरूपा नित्यानित्यत्वस्वभावा इत्येवं नैगमः।
साकल्येन इत्यादिना कारिकां व्याचष्टे-साकल्येन अनवयवेन नित्यक्षणिकैकान्तयोः ३० (१) 'नहि' इति प्रारभ्य । (२) हेतुः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org