________________
७४८ सिद्धिविनिश्चयटीकायाम्
[१२ निक्षेपसिद्धि नित्यैकान्ते क्षणिकैकान्ते च अयं ग्राह्याकारो नीलादिस्थूलाद्याकारः अयं ग्राहकाकारः अयं बहिमुखप्रतिभासः अयमन्तर्मुखप्रतिभासः इत्येवं व्यवस्था स्थितिः । किं कृत्वा ? इत्याहतत्र इत्यादि । तत्र तस्मित्तर (स्मिन् अनन्तर)न्याये सति स्वसंविन्मात्रम् स्वशब्देन परसंविदं निराचष्टे' नित्यं कालान्तरस्थायि । कुतः ? इह (एतत् ?) तावतः स्वसंविन्मात्रस्य सर्वत्र ५ स्वसन्तानसुखादौ अविशेषात् । शेषं सुखादि । किंभूतम् ? कादाचित्कम् अनित्यमेव ।
अन्य[त्रा]प्येतदुक्तमिति दर्शयन्नाह-एतदुक्तं च इत्यादि । कथमुक्तमिति चेत् ? उच्यतेअभिन्नोऽखण्डः । कः ? इत्याह-संविदात्मा स एवार्थः संवित्स्वभावो जीव इत्यर्थः । किमभिन्न एव ? न, इत्याह-[५७९ क] भेदा(दी)व भाति मनाक् भेदी प्रतिभातीत्यर्थः ।
कुतः ? इत्याह-प्रतिभासादिभेदेन आदिशब्दात् प्रयोजनादिभेदो गृह्यते । कुतो[s]भिन्नम् ? १. (न्न: ?) इत्याह-स इत्यादि । [संः संविदा]त्मार्थः [पुनः] स्वापप्रबोधादौ आदिशब्देन
जन्ममरणादिपरिग्रहः, न भिद्यते सन्तानान्तरं (र वत्) नाना न भवति इति । एतदेव व्याचष्टेबोधाकारेण चेतनारूपेण सर्वत्र स्वसुखादावविशेषो[s] भेदो ज्ञानस्य । कुतः ? इत्याहअविप्रतिपत्तेः इत्यादि । तदपि कुतः ? इत्याह-स्वाप इत्यादि । ननु स्वापे ज्ञानं नास्त्येव
इति चेत् ; अत्राह-तदभाव [इत्यादि । तदभावे] ज्ञानस्य असति मिद्धादेः अनुपपत्तेः १५ इति । मिद्धो निद्रा आदिर्यस्य मूर्छादेः तस्यानुपपत्तेः मरणोपपत्तेः अवस्थाचतुष्टयाभावः
तदवस्था(स्थ) एव। पुनस्तत्रैवे ज्ञानोदयात् नायं प्रसङ्ग इति चेत् ; न; अहेतुकोदयायोगात् । जाग्रज्ज्ञानहेतुकत्वं निरस्तम् , चिरविनष्टस्य अकारणत्वात् , इतरथा अन्त्यचित्तं पुनः तत्रैव शरीरे चित्र (चित्त) कारणमिति न मरणं नाम इति । अर्थांवेधकर्मवशात् देहान्तरे तदारम्भकमिष्यते; न;. तद्वयतिरेकेण कर्मणोऽभावात् । तदेव विशिष्टं कर्म इति चेत् ; न; विशिष्टस्य १. (विनष्टस्य) खरविषाणोवम (पम)स्य का विशिष्टता नाम ? स्वकाले सर्वस्यापि सत्त्वमिति न
स्वप्नादिदर्शनम् अनर्थकहेतुकं स्यात् । तथाव्यवहाराभावात् स्यादिति चेत् ; इतरत्र समानम् । तन्न स्वप्नादौ ज्ञानाभावः ।
ननु कोऽयं मिद्धादिर्नाम ? ज्ञानाभावश्चेत् ; स्वापाभावः । तदभावश्चेत् ; विरुद्धो हेतुः इति चेत् ; 'अनुपलक्षितज्ञानभावः' इति प्रतिपादितम् । तदस्तित्वं 'सुखेनाहं सुप्तः' इति ... [५७९ख] पुनर्विकल्पोदयात् *"पुनर्विकल्पयन् किंचित" [प्र० वा० २।१२५] 'इत्यादि
वत्" । तदनित्यतां दर्शयन्नाह-तथा इत्यादि । तेन, स्वापप्रबोधादौ चैतन्यानतिशयप्रकारेण । तदित्यादि कचित् पाठः । तच्चैतन्यम् इत्यर्थः । [आगन्तुभिः कादाचित्कैः सुखादिनीलादिनि सैः सुखादिभिः नीलादिनिर्मासैः तदनुभवे भेदिनीमिव वृत्तिमनुभवति ज्ञानमिति ।
() निराकरोति । (२) प्रतौ चतुरक्षरमितं स्थानं रिक्तमस्ति । (३) प्रतौ अष्टाक्षरमितं स्थानं रिक्तं वर्तते । (४) जाग्रत्स्वमसुषुप्तिमरणलक्षणावस्थाचतुष्टय । (५) आत्मनि । (६) प्रबोधज्ञानस्य । (७) जाग्रज्ज्ञानस्य । (6) आवेधः संस्कारः । (९) स्वापादौ ज्ञानसत्त्वम् । (१०) 'किंचिदासीन्मे कल्पनेशी।' यथा विकल्पावस्थाया ऊवं पुनर्विकल्पयन् पुमान् आसीत् मे कल्पनेदृशीति वेत्ति ।'-प्र० वा० मनोरथ० । (११) सिद्धमिति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org