________________
७४९
१२।१२]
निक्षेपविचारः ततः किं सिद्धम् इत्याह-यथा इत्यादि ।
[यथा चैतन्यभेदोऽयं भवेदागन्तुकैस्तथा।
जातिभेदस्ततस्तत्त्वं पृथक् च नित्यात्मकम् ॥१२॥ . चित्रसंविदः संभाव्यनिरंशस्वभावस्य सर्वथानुपलब्धौ निरुपाख्यतैव स्यात् अनवस्थाप्रसङ्गात् । न च तस्याः प्रतिपत्तिः प्रमाणाभावात् । तदेतेन स म्ब न्ध परीक्षा ५ प्रतिव्यूडा । कथं हि सम्बन्धाभावे बहिरन्तर्मुखादिप्रतिभासनियमः क्वचित् प्रतीयेत ? नहि 'कुतः ग्राह्याद्याकारणां स्वभावभेदः तदेकत्वहानेः इति नामस्थापनाद्रव्यभेदात् निक्षेपस्तत्रैव ।]
यथा चैतन्यस्य भेदोऽयं नानात्वमिदं भवेत् । कैः ? इत्याह-आगन्तुकैः अनन्तरोक्तः तथा जातिभेदः सन्ता[न]नानात्वं ततःतत्त्वं नित्यात्मकम् । संकरः स्यादिति १० चेत् ; अत्राह-पृथक परस्परं भिन्नं च अनेन *"सर्वस्योभयरूपत्वे" [प्र०वा० ३।१८१] 'इत्यादि निरस्तम् ।
कारिकां विवृण्वन्नाह-चित्र इत्यादि । ननु चित्रता एकस्याः संविदोऽपि नेष्यते *"किं स्यात् सा चित्रतैकस्याम्" [प्र०वा० २।२१०] इत्यादि वचनात् , केवलं सा निरंशापि सांशेव भाति इति चेत् ; अत्राह-संभाव्य इत्यादि । संभाव्यः संविदो यः निरंशः स्वभावः १५ तस्य सर्वथा प्रत्यक्षानुमानप्रकारेण अनुपलब्धौ सत्य[म]नुपलब्धस्वभावस्य सभेदस्य तथा विरोधप्रकारेण संभावनायाम् निरुपाख्यतैव नैरात्म्यमेव स्यात् । कुतः ? इत्याह-अनवस्थाप्रसङ्गात् । कचित्तत्त्वे अवस्थितेरभावानुषङ्गात् *"मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेऽप्यदोषः" [प्र. वार्तिकाल० ३।२११] इति वचनात् इष्यते एव तदिति चेत् ; अत्राह-न च इत्यादि । नैव तस्याः निरुपाख्यतायाः प्रतिपत्तिः। [५८०क] कुतः ? इत्याह-प्रमाणाभावात् । २० स्वसंवेदनाध्यक्षं तत्र प्रमाणमित्येके । विवत्तदेकम् (?) इत्यपरे । तथा च किं जातम् ? इत्याहतदेतेन इत्यादि । तेन एतेन संविद एकस्याः चित्रतापादनेन च संबन्ध परीक्षा सम्बन्धनिराक्रिया ध म की र्ति सम्बन्धिनी प्रतिव्यहा । कुतः ? इत्याह-कथं हिर्यस्मात् सम्बन्धाभावे बहिरन्तर्मुखादिप्रतिभासनियमो ग्राह्यग्राहकसंवेदनाकाराणां नियमः नियतज्ञानायत्तता क्वचित् प्रतीयेत ? तादात्म्यान्नियम इति चेत् ; अत्राह-नहि इत्यादि । कुतः स्वभावभेदो ग्राह्याद्या- २५ काराणाम् । तथापि तादात्म्यैकान्ते दूषणमाह-तदेकत्व इत्यादि । तत्तस्मात् एकत्वहानेः कारणात् इत्येवं निक्षेपः । कुतः १ इत्याह-तत्र व निगमनिक्षेप एव नामस्थापनाद्रव्यभेदात् ।
व्यवहारनयनिक्षेपं दर्शयन्नाह
(१) तद्विशेष निराकृतेः । चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ॥' इति शेषः । (२) 'न स्यात्तस्यां मतावपि । यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥' इति शेषः । (३) एतन्नामकं प्रकरणं धर्मकीर्तिकृतम् । इयं प्रमेयकमलमार्तण्डे (पृ७ ५०९) संपूर्णा समुद्धृता । (४) 'व्यवहारः प्रवर्तते' इति सम्बन्धः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org