SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ७५० सिद्धिविनिश्चयटीकायाम् [१२ निक्षेपसिद्धिः [स्याचेतनादिनिक्षेपे व्यवहारैर्विना जगत् । सर्वथार्थक्रियाऽयोगो नित्यत्वे च क्षणक्षये ॥१३॥ क्षणिकाक्षणिकयोः अन्योऽन्यापेक्षायां [व्यवहारः प्रवर्तते ।] स्याद् भवेद् व्यवहारैः विना जगत् । कस्मिन् ? इत्याह-नित्यत्वे क्षणक्षये ५ च चेतनादिनिक्षेपे क्रियमाणे । कुतः ? इत्याह-सर्वथा क्रमयोगपद्यप्रकारेण अर्थक्रियाऽयोगो नित्यत्वे क्षणक्षये च इति सम्बन्धः । ___ कारिकार्थमुपदर्शयन्नाह-क्षणिक इत्यादि । कस्याम् ? इत्याह-परस्पर इत्यादि । क्षणिकाक्षणिकयोः अन्योऽन्यापेक्षायां सत्याम् । __ कथं तर्हि व्यवहारनिक्षेपः प्रवर्तते ? इत्याह-जीवादि इत्यादि । [जीवादिभेदमाश्रित्य तत्पर्यायांश्च निक्षिपन् । प्रसिद्धं हि व्यवहारस्य मिथ्यात्वं भेदसंश्रितम् ॥१४॥ द्रव्यपर्याययोर्भेदैकान्तमवलम्ब्यापि द्रव्यस्य पर्यायात्मता अङ्गीकर्तव्या । अन्यथा अभावाविशेषात् । तथा च किं पृथक् पर्यायकल्पनया ? तावता यतो व्यवहारसिद्धिः इति व्यवहारनयस्तथैव विनिक्षिपेत् । जीव आदिर्यस्य पुद्गलादेः स तथोक्तः तस्य भेदं नानात्वम् आश्रित्य तत्पर्यायांश्च जीवादिपर्यायांश्च आश्रित्य निक्षिपन् जीवादीन्यपा (न पर्या) येषु पर्यायान् [५८०ख जीवादौ योजयन् 'व्यवहारः प्रवर्तते' इत्युपस्कारः । कुतः ? इत्याह-प्रसिद्धं हि यस्मात् मिथ्यात्वं व्यवहारस्य भेदसंश्रितं द्रव्यपर्यायनानात्वाश्रितम् ।। कारिकार्थं कथयति द्रव्या(व्येत्या) दिना ! द्रव्यपर्याययोः भेदैकान्तमवलम्ब्यापि २० वैशेषिकादिभिः द्रव्यस्य आत्मादेः पर्यायात्मता अपरापरकार्योत्पादकापरसामर्थ्यपरिणामात्मता अङ्गीकर्तव्या । कुतः ? इत्याह-अन्यथा इत्यादि । अन्यथा तदनङ्गीकरणप्रकारेण अभावाविशेषात शशविषाणाद्यविशेषात् द्रव्यस्य सा अङ्गीकर्तव्या इति । तदङ्गीकरणमस्तु इति चेत् ; अत्राह-तथा च तदङ्गीकरणप्रकारेण च किं पृथक् पर्यायकल्पनया ? कुतः ? इत्याह तावता तत्सामर्थ्यपरिणाममात्रेण व्यवहारसिद्धिर्यतः इति एवं व्यवहारनयः। तथैव २५ तनैव प्रकारेण विनिक्षेपे(विनिक्षिपेत् ) द्रव्यपर्यायान् इत्यध्याहारः । शब्दादिनयानां निक्षेपं दर्शयन्नाह-काल' इत्यादि । व्याख्यातार्थमेतत् । (१) तुलना-"कालकारकलिङ्गानां भेदाच्छब्दोऽर्थभेदकृत् । अभिरूढस्तु पर्यायरित्थम्भूतः क्रियाश्रयः ॥४४॥ कालभेदात् तावदभूत् भवति भविष्यति इति, कारकभेदात् करोति क्रियते इत्यादि, लिङ्गभेदात् देवदत्तो देवदत्ता इति, तथा पर्यायभेदात् इन्द्रः शक्रः पुरन्दर इति तथैतौ शब्दसमभिरूढौ। क्रियाश्रय एवम्भूतः, कुर्वत एव कारकत्वम् ।"-लघी०स्ववृ०श्लो० ४४ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy