Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 396
________________ ७४९ १२।१२] निक्षेपविचारः ततः किं सिद्धम् इत्याह-यथा इत्यादि । [यथा चैतन्यभेदोऽयं भवेदागन्तुकैस्तथा। जातिभेदस्ततस्तत्त्वं पृथक् च नित्यात्मकम् ॥१२॥ . चित्रसंविदः संभाव्यनिरंशस्वभावस्य सर्वथानुपलब्धौ निरुपाख्यतैव स्यात् अनवस्थाप्रसङ्गात् । न च तस्याः प्रतिपत्तिः प्रमाणाभावात् । तदेतेन स म्ब न्ध परीक्षा ५ प्रतिव्यूडा । कथं हि सम्बन्धाभावे बहिरन्तर्मुखादिप्रतिभासनियमः क्वचित् प्रतीयेत ? नहि 'कुतः ग्राह्याद्याकारणां स्वभावभेदः तदेकत्वहानेः इति नामस्थापनाद्रव्यभेदात् निक्षेपस्तत्रैव ।] यथा चैतन्यस्य भेदोऽयं नानात्वमिदं भवेत् । कैः ? इत्याह-आगन्तुकैः अनन्तरोक्तः तथा जातिभेदः सन्ता[न]नानात्वं ततःतत्त्वं नित्यात्मकम् । संकरः स्यादिति १० चेत् ; अत्राह-पृथक परस्परं भिन्नं च अनेन *"सर्वस्योभयरूपत्वे" [प्र०वा० ३।१८१] 'इत्यादि निरस्तम् । कारिकां विवृण्वन्नाह-चित्र इत्यादि । ननु चित्रता एकस्याः संविदोऽपि नेष्यते *"किं स्यात् सा चित्रतैकस्याम्" [प्र०वा० २।२१०] इत्यादि वचनात् , केवलं सा निरंशापि सांशेव भाति इति चेत् ; अत्राह-संभाव्य इत्यादि । संभाव्यः संविदो यः निरंशः स्वभावः १५ तस्य सर्वथा प्रत्यक्षानुमानप्रकारेण अनुपलब्धौ सत्य[म]नुपलब्धस्वभावस्य सभेदस्य तथा विरोधप्रकारेण संभावनायाम् निरुपाख्यतैव नैरात्म्यमेव स्यात् । कुतः ? इत्याह-अनवस्थाप्रसङ्गात् । कचित्तत्त्वे अवस्थितेरभावानुषङ्गात् *"मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेऽप्यदोषः" [प्र. वार्तिकाल० ३।२११] इति वचनात् इष्यते एव तदिति चेत् ; अत्राह-न च इत्यादि । नैव तस्याः निरुपाख्यतायाः प्रतिपत्तिः। [५८०क] कुतः ? इत्याह-प्रमाणाभावात् । २० स्वसंवेदनाध्यक्षं तत्र प्रमाणमित्येके । विवत्तदेकम् (?) इत्यपरे । तथा च किं जातम् ? इत्याहतदेतेन इत्यादि । तेन एतेन संविद एकस्याः चित्रतापादनेन च संबन्ध परीक्षा सम्बन्धनिराक्रिया ध म की र्ति सम्बन्धिनी प्रतिव्यहा । कुतः ? इत्याह-कथं हिर्यस्मात् सम्बन्धाभावे बहिरन्तर्मुखादिप्रतिभासनियमो ग्राह्यग्राहकसंवेदनाकाराणां नियमः नियतज्ञानायत्तता क्वचित् प्रतीयेत ? तादात्म्यान्नियम इति चेत् ; अत्राह-नहि इत्यादि । कुतः स्वभावभेदो ग्राह्याद्या- २५ काराणाम् । तथापि तादात्म्यैकान्ते दूषणमाह-तदेकत्व इत्यादि । तत्तस्मात् एकत्वहानेः कारणात् इत्येवं निक्षेपः । कुतः १ इत्याह-तत्र व निगमनिक्षेप एव नामस्थापनाद्रव्यभेदात् । व्यवहारनयनिक्षेपं दर्शयन्नाह (१) तद्विशेष निराकृतेः । चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ॥' इति शेषः । (२) 'न स्यात्तस्यां मतावपि । यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥' इति शेषः । (३) एतन्नामकं प्रकरणं धर्मकीर्तिकृतम् । इयं प्रमेयकमलमार्तण्डे (पृ७ ५०९) संपूर्णा समुद्धृता । (४) 'व्यवहारः प्रवर्तते' इति सम्बन्धः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456