Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 394
________________ ७४७ १२।११] निक्षेपविचारः अनन्वयं दृष्टान्तरहितम् । अथवा, द्रव्यानश्यति रहित (द्रव्यान्वयविरहितं) सन्तानान्तरं च उत्सृज्य। ____ कारिका व्याचष्टे सर्वम् इत्यादिना । नीलादिसुखादिनान(ज्ञान) सर्वम् एकात्मकम् एकस्वभावं तत्त्वं परमार्थरूपम् । कथं चित्रप्रतिभास इति चेत् ? अत्राह-केवलम् इत्यादि । अविद्या वती(की)दर्शयति । किम् ? इत्याह-जन्म इत्यादि। किंभूता[ना]म् ?असताम् । ५ क ? इत्याह-आत्मनि । कुतः ? इत्याह-निर्भासभेदात्तद्भेदमाश्रित्य इत्येवम् एतावता सर्व सुस्थितम् । स्यादेतत् , प्रतिभासभेदात् विरुद्धधर्माध्यासाच्च नानात्वमेव युक्तमिति कथं सर्वमेकात्मकमिति चेत् ? अत्राह-नहि इत्यादि' भेदलक्षणपर्यन्तं सुगमम् । कुतः ? इत्याह स्वयम् इत्यादि । ततोऽन्यद्भेदलक्षणमिति चेत् ; अत्राह-न चापरम् इत्यादि । प्रकृतं निगमयन्नाहतदशक्य इत्यादि। ननु माभूदन्वयः, तथापि अन्यथानुपपत्त्या संत्त्वादिकं क्षणभङ्गं साधयति इति चेत् ; अत्राह-नहि [५७८ख] इत्यादि । सुगमम् । कथं सन्तानान्तरव्यसनं वादिनः प्रेक्षाकारितां व्याहन्ति इति चेत् ? अत्राह-व्यापार इत्यादि । व्यापारव्याहारादि] निर्भासज्ञानं स्वोपादानं(न)प्रकृतेरविद्याप्रकृतेः भवितुमर्हति इति एवं हेतोर्वा किं कारणान्तरस्य सन्तानान्तरलक्षणस्य कल्पनया ? कुतः ? इत्याह-मिथ्यकान्त इत्यादि । तत्सिद्धः सन्तानान्तरसिद्धि- १५ रिति । एवं संग्रहमयान् (हनयात् ) कुर्व[त]स्तन्निक्षेपमाह-विद्या इत्यादिना । [विद्याविद्याविनिर्भासात् नित्यानित्यत्वसंभवात् । स्वार्थस्वरूपयोः सिद्धिः द्वयरूपेति नैगमः ॥११॥ साकल्येन नित्यक्षणिकैकान्तयोः ग्राह्यग्राहकबहिरन्तर्मुखप्रतिभास इति व्यवस्था । २० तत्र स्वसंविन्मात्र नित्यं तावतः सर्वत्राविशेषात् । शेषं कादाचित्कम् । एतदुक्त च *"अभिन्नः संविदात्मार्थः भाति भेदीव सः पुनः । प्रतिभासादिभेदे स्वापप्रबोधादौ न भिद्यते॥” इति । बोधाकारेण सर्वत्राविशेषोऽविप्रतिपत्तेः । तदभावे मिद्धादेरनुपपत्तेः अवस्थाचतष्टयाभावस्तदवस्थ एव । तथा तदागन्तुभिः सुखादिनीलादिनिर्भासैः भेदिनीमिव वृत्ति- २५ मनुभवति ।] विद्या तत्त्वज्ञानम् अविद्या विप्लवज्ञानं तयोर्विनिर्भासात् प्रतीतेः नित्यानित्यत्वसंभवो य एकत्र तस्मात् स्वार्थस्वरूपयोः स्वस्वरूपस्य अर्थ (अर्थ) स्वरूपस्य च सिद्धिः निष्पत्तिः निर्णीतिर्वा द्वयरूपा नित्यानित्यत्वस्वभावा इत्येवं नैगमः। साकल्येन इत्यादिना कारिकां व्याचष्टे-साकल्येन अनवयवेन नित्यक्षणिकैकान्तयोः ३० (१) 'नहि' इति प्रारभ्य । (२) हेतुः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456