________________
११।२७]
सविकल्पकमेव प्रमाणम्
विवेकस्य कर्कटीभक्षणादौ धिया कालविच्छेदस्य अनिश्चात् । एतद् दूषयन्नाह - सकृद्भावः प्रसज्येत । केषाम् ? सविकल्पमनोधियाम् । समर्थकारणबहुत्वाद् युगपत्कार्य बहुत्वमनिवार्यम्, तथा च *“अश्वं विकल्पयतोऽपि गोदर्शनात्" इत्यादि विरुध्यते ।
षण्णां धियां सकृद्भावे परकीयां युक्तिं दर्शयन्नाह - शब्दादिषु इत्यादि । शब्दः आदियेषां रूपादीनां तेषु । किंभूतेषु ? अभिमतेषु युगपत् सन्निहितेषु सत्सु तद्विज्ञानानां शब्दादि - ५ धियां क्रमोत्पत्तौ अङ्गीक्रियमाणायां प्रत्येकम् एकमेकं प्रति विच्छेदः प्रतीयेत युगपच्छब्दादिप्रतीतिर्न स्यात् । कुतः ? इत्याह- प्रत्येकं पञ्चभिर्व्यवधानात् ।
नैयायिकमतमाशङ्कते सौगतः भावपक्षस्य इत्यादि । तत्र दूषणमाह- स एव रस इत्यादि । तत इत्याद्युपसं [हारः ] ।
संप्रत्याचार्यः कारिकां विवृण्वन्नाह - इति इत्यादि । इति एवं कल्पनायां [ ५७० ख] १० सहभावः प्रसज्येत । केषाम् १ इत्याह- सविकल्प इत्यादि । सविकल्पमनश्च अक्षज्ञानानि च तेषाम् । पुनरपि केषाम् ? इत्याह- तदन्यव्यवच्छेद इत्यादि । [ अन्यस्य ] अन्यतो वा व्यवच्छेदः, तेषां तज्ज्ञानानाम् अन्यव्यवच्छेदः तदन्यव्यवच्छेदः तस्य व्यवसायो निर्णय आत्मा एव (स्व) भावो यासां तासां च 'संविदाम्' इति पदघटना, मनोविकल्पानाम् इत्यर्थः । कस्मिन् सति ? इत्याहतदविच्छेदप्रतीतौ तेषां सविकल्पमनोऽक्षज्ञानानामविच्छेदप्रतीतिर्या तस्यां सत्याम् । नहि १५ तदन्यव्यवच्छेदव्यवसायात्मसंविदामभावे तदविच्छेदप्रतीतिः । किं ताभिः कर्त्तव्यम् तज्ज्ञानैरेव तत्प्रतीतिसद्भावादिति चेत्; अत्राह - तत्रैव हि इत्यादि । तत्रव तास्वेव व्यवसायात्मकसंवितिषु सतीषु हिर्यस्माद् विच्छेदस्य अन्यतो व्यावृत्तेरनुपलक्षणं युक्तम् न पुनरविकल्पज्ञानेषु सत्सु । कुतः ? इत्याह- तद् इत्यादि । तेषां न विकल्पज्ञानानां स्वापादिनाऽविशेषात् ।
ननु[यतः]स्पष्टनिर्भासाऽन्यविकल्पज्ञानानि इति, [त]त एव तदुपलक्षणमिति चेत्; अत्राह - २० स्पष्टनिर्भासेऽपि इत्यादि । ततः तदन्यवच्छेद व्यवसायात्मनां च सहभावः प्रसज्येत इति ।
स्यान्मतम् - षण्णां धियाम् अनन्तरमेकं सविकल्पमनोज्ञानं तदव्य (तदध्य) वसायि जायते, ततोऽयमदोष इति; तन्न; अनेकान्तप्रसङ्गादिति प्रतिपादितम् ।
एतदेव दर्शयन्नाह - स्पष्टस्य इत्यादि ।
[स्पष्टस्यालातचक्रादेर्विभ्रमस्यापि वीक्षणात् । स्वलक्षणोपलब्धीनां नैकक्षणिकदर्शनम् ॥२७॥
७३३
प्रतिक्षणं निरंशक्षणिक परमाणुषु प्रत्यक्षेषु परस्परासम्प्लवे कुतश्चक्रभ्रान्तिः ? सा च भवन्ती कथमनेकान्तसिद्धिर्न भवेत् तदुपलम्भानुपलम्भयोर्विरोधात् ।]
Jain Education International
भिन्नप्रक्रमः अपिशब्दः, ततो न केवलम् अन्तरेक विकल्पविभ्रमस्य अपि तु स्पष्टस्यापि अलातचक्रादेः [ ५७१] विभ्रमस्य वीक्षणात् 'अनेकान्तसिद्धिः' इत्युपम्कारः । ३०
(१) सविकल्पमनोऽक्षज्ञानैरेव ।
For Personal & Private Use Only
२५
www.jainelibrary.org