________________
৩৪
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिथिः ननु प्रतिपरमाणु प्रतिक्षणं संविदां भेदात् नैकंचित्रम् अलातचक्रज्ञानमिति चेत् ; अत्राहस्वलक्षणोपलब्धीनाम् इत्यादि । नैकक्षणिकपरमाणुदर्शनं विभ्रमः अति प्रसङ्गात्] ।
'प्रतिक्षणम्' इत्यादिना [कारि] कार्थमाह-क्षणं क्षणं प्रति प्रतिक्षणम् । केषु ? निरंशक्षणिकपरमाणुषु प्रत्येकम् एकं परमाणु प्रति प्रत्यक्षेषु दर्शनेषु परस्परासंप्लवे एव (एक)चित्र५ ज्ञानाभावे कुतः चक्रभ्रान्तिः न एकैकानु (काकार) दर्शनं चक्षु (चक्र) दर्शनं नाम इति भावः । सा च चक्रभ्रान्तिर्भवन्ती जायमाना कथम् अनेकान्तसिद्धिः अनेकान्तप्रतीतिर्न भवेत् ? भवेदेव । अथ अपरदेशोपसर्पिणाम् अलातक्षणानाम् अन्योऽन्यविवेकानुपलम्भेऽपि सर्वसाधारण (ण)भासुरतामात्रदर्शनात् चक्रभ्रान्तिरिति; तत्राह-तदुपलम्भ इत्यादि । तेषाम् अलातस्वलक्षणानां
भासुरतामात्रेण य उपलम्भः यश्च परस्परविवेक[रू]पेण अनुपलम्भः तयोः विरोधात् १० एकस्य दृश्येतरताप्राप्तः अनेकान्तसिद्धिरिति ।
न केवलम् अनन्तरविधिना अनेकान्तसाधनम्, अपि तु तदन्तरेणापि इति दर्शयन्नाहप्रत्यक्षात् इत्यादि ।
[प्रत्यक्षाचानुमेयादेः अन्येऽर्था मदगोचराः।
इत्यागमाविसंवादि ज्ञानं स्याद्वादशंसनम् ॥२८॥ १५ परिगणितप्रमाणवृत्तिनिवृत्त्योः अर्थतत्त्वासिद्धिः अनेकान्तमपेक्षते । प्रत्यक्षं तत्र]
प्रत्यक्षात ] प्रत्यक्षप्रमितादर्थात् स्याद्वादस्य स्यादस्ति इत्यादि शासनस्य शंसनं । तदनंतरदनु (तदनु)कूलत्वात्तस्य । तथा अनुमेयादेश्च अनुमानगम्यम् अनुमेयं प्रतिक्षणपरिणामादिकम् आदिर्यस्य चित्तादिगोचरस्य स तथोक्तः तस्माच्च स्याद्वादशं
सनम । अन्ये प्रत्यक्षानुमेयादिबहिर्भूता अर्थाः। किं भूताः ? मदगोचराः [५७१ २० ख] अस्मादृशां दर्शनाविषयाः केवलं योगिगम्याः सन्नि वेद्य (सन्ति विद्य)न्त इति एवम्
आगमाद् यद् अविसंवादिज्ञानं धर्मादिविषयं तदपि तच्छंसनमिति । किं बहुना उक्तन, उन्मि[षि]तमपि अनेकान्तमन्तरेण नास्तीति ।
कारिक व्याख्यातुमाह-परिगणित इत्यादि । सौगतादिभिः यानि परिगणितानि प्रमाणानि तेषां या वृत्तिः विधिसाधनाय प्रवृत्तिः या च कुतश्चित् निषेध्यान्निवृत्तिः तयोः २५ अर्थस्य चेतनेतररूपस्य तत्त्वं विधिप्रतिषेधात्मकत्वं तस्य सिद्धिः अनेकान्तमपेक्षते प्रत्यक्षं
(क्ष)वृत्तेः अर्थतत्त्वसिद्धिः । तदपेक्षां कथयन्नाह-प्रत्यक्षम् इत्यादि । कुतः ? इत्याहतत्र इत्यादि । तत्र प्रत्यक्षे इत्यर्थः।
तथाहि इत्यादिना तदेव दर्शयति । [तथाहि
अविकल्पमसत्कल्पमज्ञेयं स्वलक्षणम् ।
अवाच्यं केवलं नेति तथा च प्रतिपादितम् ॥२९॥ (१) एकैकस्य आरस्य चक्रभागस्य । (२) चक्षुष उन्मीलनमपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org