________________
११॥३०] तत्त्वं कथञ्चिदवाच्यम्
७३५ चित्तानां स्वरूपस्य कथन्न स्वतः सिद्धिः ? अव्यवसायात्मकत्वात् , तादृशां परतश्च न । न च नित्यस्य कादाचित्कदर्शनं युक्तम् , तदर्शनस्य परिणामाविनाभावात् । नापि "तद्विषयं प्रत्यक्षमव्यवसायात्मकमिति परकल्पनमनुभवविरुद्धम् , तद्भ्रान्तिविरोधात् । सर्वत्र विरोध तदात्मकं तत्त्वम् एकान्त..]
अविकल्पं 'प्रत्यक्षम्' इत्यनुवर्तते। तत्किंभूतम् ? इत्याह-असत्कल्पम् 'अस्ति' ५ इति कल्पनारहितमेतद् अर्थभेदाभेदैकान्तार्थग्राहकं विकल्पकम् । ततः किम् ? इत्याह-स्वलक्षणमज्ञेयम् । केवलमवाच्यं तत्' इति चेत् ; अत्राह-अवाच्यं केवलम् इति एवं नेत्येव यु(वमुक्तम् , न केवलमत्रैव उक्तम् अपि तु अन्यत्रापि इति दर्शयन्नाह-तथा च [प्रतिपादितम्] ।
किं प्रतिपादितम् ? इत्यत्राह-स्वरूपस्य इत्यादि । स्वरूपस्य आत्मनः स्वतः १० सिद्धिः चित्तानां निरंशसंवेदनानां न कथं न । कुतः ? इत्यत्राह-अव्यवसायात्मकः [कत्वात] तेषां व्यवसायस्वभावस्याभावात् । परतः स्यादिति चेत् ; अत्राह-परतश्च ज्ञानान्तरा न पि (रादपि) तथा न, तादृशां निरंशानां प्रतिभासाभावादिति भावः । भेदैकान्तस्यापि प्रतिभासो [५७२क] नास्तीति दर्शयन्नाह-न च इत्यादि । नैव नित्यस्य आत्मादेः कादाचित्कदर्शनं युक्तम् । कुतः ? इत्याह-तद् इत्यादि । तस्य दर्शनस्य परिणामाविनाभावात् । परिणामः १५ तस्य स्यादिति चेत् ; अत्राह-नापि इत्यादि ।
ननु विचारयतोऽपि तदेकान्तविषयं निर्णयाध्यक्षं न निवर्त्तत इति चेत् ; अत्राह-तद् इत्यादि । स तदेकान्तो विषयो यस्य तत्तद्विषयम्। किम् ? प्रत्यक्षम् । किंभूतम् ? इत्याहअव्यवसायात्मकम् इति एव (व) परकल्पनमनुभवविरुद्धम् , अनेकान्तस्य अनुभवे प्रतिभासनात् । भ्रान्तिरियमिति चेत् ; अत्राह-तद् इत्यादि । तस्य अनेकान्तप्रतिभासस्य भ्रान्ति- २० विरोधात् । अर्थैकान्तवद् अनेकान्तस्यापि अप्रतिभासनात् समान चोद्यमिति चेत् ; अत्राह-सर्वत्र इत्यादि । भवतु तत्प्रतिपत्तिः, तथापि विरोधान्न युक्तमिति चेत् ; अत्राह-विरोध इत्यादि । ततः किम् ? इत्याह-तदात्मकम् अनेकान्तात्मकं तत्त्वम् । कुतः ? इत्याह-एकान्त इत्यादि । तत्त्वमवाच्यमिति चेत् ; अत्राह-कथंचिद् इत्यादि ।
[कथञ्चिदिष्टं तत्त्वस्यावाच्यत्वं न सर्वथा । 'विज्ञप्तिमात्रे का कस्योक्तिश्चार्थक्रियास्थितिः ॥३०॥ आस्तां तावत् ]
कथंचित् सकृत् अस्तित्वादिति (त्वादि) धर्मप्रतिपादनप्रकारेण अवाच्यं(च्यत्वं) तत्त्वस्य इष्टम् । सर्वथाऽवाच्यमिति चेत् ; अत्राह-सर्वथा इत्यादि । वाच्यं तर्हि तत्त्वमिति चेत् ; अत्राह-विज्ञप्तिमात्रे इत्यादि । निरंशज्ञानमात्रे नैरात्म्ये च का कस्य पदा- ३०
(१) स्वलक्षणम् । (२) अनेकान्तप्रतिपत्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org