________________
७३६
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः र्थस्य उक्तिः ? सर्वस्यास्य विचार्यमाणस्यायोगात् इति भावः। दूषणान्तरमाह-का अर्थक्रिया इत्यादि । सर्वत्र तदेकान्ते का न काचिदर्थक्रियायाः कारकज्ञापक[रूपायाः] स्थितिः ।
कारिकां व्याचष्टे-आस्तां तावत् इत्यादिना । [५७२ ख] सर्व सुगमम् ।
एवं शब्दस्वरूपं निरूप्य अधुना तदाश्रितनयात् दर्शयितुम् अन्त्यवृत्तमाह-भेदैः ५ इत्यादि।
[भेदैः शब्दार्थभेदं नयन् स वाच्यः कारकादिस्वभावैः, अंभिरूढोऽस्तु नयोऽभिरूढिविषयः पर्यायशब्दार्थभित् । इत्थम्भूतनयः क्रियार्थवचनः स्यात्कारमुद्राङ्कितः।
तत्पमितोंऽशः कथंचन पृथगिति संविदुः तत्त्वदर्शिनः (?)॥३१॥] १० भेदैः विशेषैः शब्दस्य अर्थः व्यञ्जनपर्यायः तस्य भेदं नानात्वं नयन तत्प्रतिपत्तत् प्रायत् (पत्तिं प्रापयन्)वाच्यः कथनीयः । किंभूतैः भेदैः ? इत्याह-कारक इत्यादि । अभिरूढं दर्शन्नाह-अभिरूढिविषयोऽभिरूढनयः इत्यर्थः । किंभूतः ? इत्याह-पर्याय इत्यादि । पर्यायैः शब्दार्थभित् । इत्थंभूतं कथ[य]न्नाह-इ[त्थम्भू त[:] वाच्यः।
(१) "इच्छइ विसेसियतरं पच्चुप्पण्णो णओ सहो ।"-अनु० ४ द्वा० । आ० नि० गा० ७५७ । विशेषा० गा० २७१८ । “लिङ्गसंख्यासाधनादिव्यभिचारनिवृत्तिपरः शब्दः।"-स० सि० १॥३३ । “कालकारकलिङ्गानां भेदाच्छब्दोऽर्थभेदकृत् । अभिरूढस्तु पर्यायैरित्थम्भूतः क्रियाश्रयः ॥"-लघी० श्लो० ४४ । शब्दपृष्टतोऽर्थग्रहणप्रवणः शब्दनयः, लिङ्गसंख्याकालकारकपुरुषोपग्रहव्यभिचारनिवृत्तिपरत्वात् ।"-धवला. टी० सत्यरू० । त० श्लो० पृ० २७२। नयवि० श्लो० ८४। न्यायकुमु० पृ० ६३९। प्रमेयक० पृ० ६७८ । सन्मति० टी० पृ० ३१२। नयचक्रगा० ४० । तत्वार्थसा० पृ० १०७ । प्र० नय० ७॥३२, ३३। स्या० म० पृ० ३१३। जैनतर्कभा० पृ० २२। (२) “वत्थूओ संकमणं होइ अवत्थूनए समभिरूढे ।"-अनु० ४ द्वा० । आ० नि० गा० ७५८। विशेषा० गा० २७२७। “स स्वर्थेष्वसंक्रमः समभिरूढः”-तत्त्वार्थाधि० भा० १॥३५॥ "नानार्थसमभिरोहणात् समभिरूढः ।"-स० सि० १॥३३। “अथवा यो यत्राभिरूढः स तत्र समेत्य आभिमुख्येनारोहणात् समभिरूढः ।"-त० वा. १।३३। “समभिरूढः एवं मत्त्वैकीभावेन आभिमुख्य एक एव रूपादिरर्थ एवेति या ज्ञाना (?) समभिरूढः ।"-नयचक्रवृ० प० ४८३ ख । “पर्यायशब्दभेदेन भिन्नार्थस्याधिरोहणात् । नयः समभिरूडः स्यात् पूर्ववञ्चास्य निश्चयः॥"-त० श्लो० पृ. २७३। नयवि० श्लो० ९२॥ प्रमेयक० पृ० ६८०। सन्मति० टी० ३१३। नयच० गा० ४१॥ तत्त्वार्थसा० पृ० १०७ । प्र० नय० ७॥३६॥ स्या० म० पृ० ३१४। जैनतर्कभा० पृ० २२। (३)"वंजण अस्थ तदुभयं एवंभूओ विसेसेइ"-अनु० ४ द्वार । आ०नि० गा० ७५८। विशेषा० गा० २७४३ । “व्यञ्जनार्थयोरेवम्भूतः ।"-तत्त्वार्थाधि० भा० १॥३३। "येनात्मना भूतः तेनैवाध्यवसाययति इत्येवम्भूतः अथवा येनात्मना येन ज्ञानेन भूतः परिणतः तेनैव अध्यवसाययति ।"-स०सि० ११३५ । धवलाटी० सत्प्र० पृ० ९०। जयध० पृ० २९। "तक्रियापरिणामोऽर्थः तथैवेति विनिश्चयात् । एवम्भूतेन नीयत क्रियान्तरपराङ्मुखः ॥"-त. श्लो. पृ० २७४ । नयवि० श्लो. ९४। प्रमेयक पृ०६८० सन्मति०टी० पृ. ३१४। नयचक्र० गा० ४३। तत्त्वार्थसा० पृ० १०७। प्र. नय० ७।४०। स्या० म० पृ० ३१५। जैनतर्कभा० पृ. २३ । (१) कारकादिस्वभावैः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org