________________
७३२
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः किंभूतयोः ? विषयविषयिणोः विषयोऽर्थः विषयि ज्ञानं तयोः विनष्टेतरयोः प्रतिभासाविशेपात् । सर्वदा [५६९ख] स्थूलप्रतिभासादित्यर्थः । तर्हि बहिः स्वलक्षणस्या (स्य) विचार्यमाणस्य अयोगात् , अन्तः स्वलक्षणमस्तु इति चेत् ; अत्राह-नापि इत्यादि । विज्ञप्तिरेव नार्थः विज्ञप्तिमात्रं तस्मिन्नपि न केवलं बहिः, एतल्लक्षणम् एतस्य परपरिकल्पितस्वलक्षणस्य लक्षणं ५ दर्शनं नापि । नहि ज्ञानपरमाणवः प्रतिभान्ति पुरुषवत् । सुखादिनीलादितत्त्वस्य परेण प्रतिभास इष्यते । अभ्युपगमे वा नीलादिप्रतिभासः किमसत्य इति चेत् ; अन्यत्र कः समाश्वासः ? कुतश्च 'तदसत्यता ? ग्राह्यत्वेनावभासमात् ; तैमिरिकोपलेब्धकेशादिवदिति चेत् ; अत्राहस्वमादावित्यादि । स्वप्न आदिर्यस्य काचकामलादिविभ्रमस्य स तथोक्तः तत्र तल्लक्षणाभाव
प्रसङ्गाद विज्ञप्तिदर्शनाभावप्रसङ्गात् नापि तन्मात्रेऽपि तल्लक्षणमिति । अयमभिप्रायः१० यथा विभ्रमे बहिरर्थाभावः, प्रतिभासेऽपि तथा स्वसंवेदनाभावोऽपि । तत्र परसन्तानस्य असतो
ऽपि प्रतिभासनात् तत्र सत्त्वे, अन्यत्र कः प्रद्वेषः इति विचारितम् । तर्हि प्रतिभासाविशेषात् बाध्यबाधकभावविरहात् जाग्रदशावत (त् ) स्वप्नादावप्यर्थोऽस्ति इति चेत् ; अत्राह-सद्यपि (सत्यपि)विद्यमानेऽपि बाह्यार्थे स्वमादौ कथं तदा स्वप्नादिकाले चित्तचैत्तानां प्रत्यक्षत्वं
प्रत्यक्षग्राह्यत्वम् ? 'कथं च न स्यात् ?' इति परः पृच्छति । तं प्रत्युत्तरं स्पष्टप्रतिभासा१५ भावात् निरंशतत्त्वस्य इति । हेत्वन्तरमाह-तद् इत्यादि । तस्य विपरीतारोपस्य व्यवच्छे
दोऽभावः तस्यानिर्णयाच्च यतः स्पष्टप्रतिभासात् [५७०क] तन्निर्णया [च] *"सर्वे" [प्र०वा० ३।३९] इत्यादि भवेत् । ततः सर्वदा निरंशज्ञानतत्त्वस्याप्रतिभासनाद् बहिरर्थस्य विपरीतस्य प्रतिभासनात् तावन्मानं सौगतस्य तत्त्वं प्रसक्तमिति भावः ।
*"यत्रैव जनयेदेनां तत्र वास्य प्रमाणता" इत्यत्र पुनरपि दूषणं दर्शयन्नाह२० षण्णां धियामित्यादि।
[षण्णां धियां सकृदुभावे विवेकानुपलक्षणात् ।
सकृद्भावः प्रसज्येत सविकल्पमनोधियाम् ॥२६॥ शब्दादिष्वभिमतेषु युगपत्सन्निहितेषु तद्विज्ञानानां क्रमोत्पत्तौ प्रत्येकं पञ्चभिय॑क्धानात् प्रत्येकं विच्छेदः प्रतीयेत । भावपक्षस्य [बलीयस्त्वादिति चेत्] स एव २५ रसः ततः 'इति कल्पनायाम् तदन्यव्यवच्छेदव्यवसायात्मनां सविकल्पमनोऽक्षज्ञाना
नाम् तदविच्छेदप्रतीतौ सहभावः प्रसज्येत । तत्र व हि विच्छेदानुपलक्षणं युक्तम् तदविशेषात् स्पष्टनिर्भासेऽपि ततः तदन्यव्यवच्छेदव्यवसायात्मनां च सहभावः प्रसज्येत ।]
___ तात्पर्यमिदमत्र यथाऽनन्तरः परस्य अभ्युपगमः तथा शब्दादिषु युगपत् सन्निहितेषु तथा षट्बुद्धयो जायन्त इति । तत्र षण्णां। कासां ? धियाम् रूपरसगन्धस्पर्शशब्दविक३० ल्पज्ञानानां भावे । कदा ? सकृत् सह । कुतः तद्भावः ? इत्याह-विवेकानुपलक्षणात्
___(१) नीलादिप्रतिभासस्य असत्यता । (२) “सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितः । स्वभावपरभावाभ्यां यस्मात् व्यावृत्तिभागिनः ॥"-प्र० वा० । (३) विकल्पबुद्धिम् । (४) निर्विकल्पस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org