________________
११।२५ ]
प्रत्यक्षमपि सामान्य विषयकम्
७३१
चित् परम्परया अर्थप्रतिबन्धो न तावदविकल्पात् ; तेन विकल्पाविषयीकरणात्, ततैः तस्वात् सिद्धे ( तत्त्वासिद्धे) श्च क्षणक्षयादिवत् । नापि विकल्पा [त्] निर्विषया [त् ]; तस्यापि तदन्तरात् प्रतिबन्धसाधने अनवस्था । अथ एकेन विकल्पेन अन्यस्य तेन प्रतिबन्धः साध्यते; अन्योऽन्यसंश्रयः । एतेन विकल्पात्मवेदनात् तत्सिद्धिर्निरस्ता; तेर्ने अर्थापरिच्छेदादवि कल्पदोषाच्च इति ।
प्रकृतं निगमयन्नाह - तन्न इत्यादि । कुतः ? इत्याह - विप्रतिपत्तेः विकल्प इति सम्बन्धः । ५ यदि वा, विकल्पापेक्षया विपरीता विरुद्धा वा प्रतिपत्तिः तस्या इति । विकल्पकं स्वलक्षणतत्त्वाविसंवादि स्यादिति चेत्; अत्राह - नापि [५६९ क] इत्यादि । कुतः ? इत्याह- अतद्विषयत्वात् स्वलक्षणतत्त्वाविषयत्वात् विकल्पकस्य परमार्थतः, कल्पनया केवलं परं स्यात् व्याख्यात्रभिप्रायवशादविकल्पकं तदविसंवादि इति चेत्; अत्राह - तत एव विकल्पस्य अतद्विषयत्वादेव । यदि वा, विकल्पे विप्रतिपत्तेरेव अविकल्पप्रतिपत्तेरेव अविकल्पज्ञानं व्याख्यात्रभिप्रायेणापि १० नाविसंवादकम् । कुतः ? इत्याह - बहिः इत्यादि । तदपि कुतः ? इत्याह-यथा इत्यादि । एतदेव समर्थयमानः प्राह - प्रत्यक्षमित्यादि ।
[प्रत्यक्षं निश्चयापेक्षं न प्रमाणं स्वलक्षणे । सन्निधानेत्राभ्याञ्च प्रतिभासभिदा घियः ॥ २५ ॥
प्रत्यक्षं सर्वतो व्यावृत्तं वस्तु गृह्णदपि अनीलादिसमारोपं व्यवच्छिनत्ति, १५ सामान्य' तन्नैतत् प्रत्यक्षं न चानुमेयम् । न च कार्यकारणयोः विषयविषयिणोः विनष्टेतरयोः प्रतिभासाविशेषात् । नापि विज्ञप्तिमात्रे एतल्लक्षणम्, स्वप्नादौ तल्लक्षणाभावप्रसङ्गात् । सत्यपि स्वप्नादौ कथं तदा चित्त चैत्तानां प्रत्यक्षत्वम् ! कथं च न स्यात् ? निरंशतत्त्वस्य स्पष्टप्रतिभासाभावात् तद्व्यवच्छेदानिर्णयाच्च यतः *" सर्वे" [प्र० वा० ३।३९] इत्यादि भवेत् ।]
प्रत्यक्षं स्वलक्षणे न प्रमाणं किन्तु सामान्ये । कुतः ? इत्याह- निश्चयापेक्षं यतो निश्चये स्वसामान्ये, इतरथा क्षणिकत्वानुमानमनर्थकमेव । तदपेक्षमपि स्वलक्षणे प्रमाणम्; तर्हि तदपेक्षा ( क्ष्य) योग: । तन्निरपेक्षमेव प्रमाणमिति चेत्; अत्राह - सन्निवे (धान) इत्यादि । स्वलक्षणस्य यत् सन्निधानं यच इतरदसन्निधानं ताभ्यां धियः प्रत्यक्षबुद्धः प्रतिभासभिदा च न तदाकारासान (कारज्ञान ) इत्यर्थः ।
1
arori विवृण्वन्नाह - सर्वतः सजातीयाद् विजातीयाद् व्यावृत्तमपसृतं वस्तु गृहदपि प्रत्यक्षम् अनीलादिसमारोपं व्यवच्छिनत्ति यत्रांशे निश्चयं जनयति इत्यर्थः । यदि प्रमाणं किं स्यात् ? इत्याह-सामान्य इत्यादि । यत एवं तत् तस्मात् नैतत् स्वलक्षणं प्रत्यक्षं न चानुमेयम् प्रत्यक्षाभावे अनुमानाभावात् । स्वानुभूते सर्वत्र प्रमाणमित्ति चेत्; अत्राह--नच इत्यादि । व्याख्यातम् । एतदपि कुतः ? इत्याह- - कार्य इत्यादि । कार्यं ज्ञानं कारणमर्थः तयोः । ३०
1
(१) ज्ञायते । (२) अविकरूपात् । (३) विकल्पान्तरात् । ( ४ ) स्वसंवेदन । ( ५ ) निर्विकल्पपक्षोपक्षिप्त दोषानुषङ्गात् । (६) योगः सन्निकर्षः योग एव यौगः । अथवा, यौगाभिमतः सन्निकर्षः प्रमाणं स्यादिति ।
Jain Education International
For Personal & Private Use Only
२०
२५
www.jainelibrary.org