________________
७३०
सिद्धिविनिश्चयटीकायाम्
[ ११ शब्दनयसिद्धिः
तथा प्रत्यक्षार्थः तद्देशे नास्ति । नहि प्रत्यक्षपरिच्छेद्याः अर्थाः सर्वे तदाधारे आत्मनि व्यवस्थिताः । अतदेशाः परिच्छिद्यन्ते नातत्काला इति किंकृतो विभागः ? भाविनोऽपि स्वकालसत्ताऽनिषेधः, अन्यथा वर्त्तमानो भवेत् । सोऽपि किंचिदपेक्ष्य भावीति । ननु किमुच्यते - 'नान्तरमुच्यते ' - 'नान्तरमुत्प्रेक्षामहे' इति ? यावता विशदेतरताकृतं तदस्ति इति चेत्; अत्राह - प्रतिभासभेद ५ इत्यादि ।
१०
स्यान्मत्रम् - शब्दज्ञानस्य नाविशदत्वात् निर्विषयत्वमुच्यते, किन्तु तद्ग्राह्यसामान्यस्य अवस्तुत्वात्, तदप्यसदर्थप्रत्ययत्वादिति ; तत्राह - स्वकारण इत्यादि ।
प्रमाणाविसंवादकत्वं यथातत्त्वं युक्तम्, प्रतिपत्रभिप्रायाणामप्रतिष्ठानात् । तदनुकरणे स्वमतन्याघातात् । धर्म तत्त्वतः । परम्परयाः नचानर्थविषयैर्विकल्पैः तत्त्वव्यवस्थापनम् । केषांचिन्मिथ्यात्वेऽपि कथञ्चित् केनचित् तत्वव्यवसाय इत्यपि मिथ्या विकल्पात् कुतस्तत्त्वप्रतिपत्तिः १ यतः स्वलक्षणव्यवस्थाऽविसंवादः । तन्न' 'विप्रतिपत्तेः । नापि विकल्पकम्, परमार्थतः अतद्विषयत्वात् । तत एवाविकैल्पज्ञानं न व्याख्यात्रभि१५ प्रायेणापि अविसंवादकम् । बहिः यथा ]
२०
[स्वकारणस्वलक्षणस्याप्यन्तर्बहिर्विकल्प्यवत् । परमार्थाविसंवादि न प्रत्यक्षं न लैङ्गिकम् ॥२४॥
स्वकारणं तत्स्वलक्षणं च इति तस्यापि विकल्प (ल्प्य ) वत् सामान्यवत् असदर्थप्रत्ययविषयत्वमवगन्तव्यम् । तदाह - परमार्थ इत्यादिना । परमार्थः क्षणिकनिरंशपरमाणुरूपः तदविसंवादि न प्रत्यक्षम् उक्तन्यायात्, अत एव न लैङ्गिकम् । कुतः ? इत्याह-अन्तर्बहिः इत्यादि ।
कारिकार्थमाह - प्रमाण इत्यादिना । तदविसंवादकत्वं [ यथातत्त्वं ] तत्त्वानतिक्रमेण युक्तम् उपपन्नम् । प्रतिपत्रभिप्रायादिति चेत्; अत्राह - प्रतिपत्रभिप्रायाणामप्रतिष्ठानात् तथा ( यथा तवं युक्तमिति [ ५६८ ख] तदनुकरण (णे) प्रतिपत्रभिप्रायानुकरणेन स्वमतव्याघातात् । तदाह-धर्म इत्यादिना । अस्तु यथातत्त्वं तदिति चेत्; अत्राह-तत्त्वत इत्यादि । नन्वविकल्पाद् विकल्पवासनाप्रबोधः, ततो विकल्पः तस्मात् तत्त्वव्यवस्था इति, अतो २५ विकल्पात् सेति चेत्; अत्राह - परम्परया इत्यादि । भवतु तत् तेषामेव इति चेत्; अत्राहन चानर्थविषयैर्विकल्पैः तत्त्वव्यवस्थापनम् । तेभ्योऽपि परम्परया वस्तुप्रतिबद्धेभ्यस्तद्व्यवस्थापनमिति चेत्; अत्राह - मिथ्यात्वेऽपि इत्यादि । मिथ्यात्वेऽपि केषांचित् विकल्पानां तत्त्वव्यवसायः कथंचित् केनचित् परम्पराप्रतिबन्धप्रकारेण इत्यपि एवमपि मिथ्या, विकल्पात् कुतः तत्त्वप्रतिपत्तिः ग्रतो यस्याः तत्त्वप्रतिपत्तेः अनुमानभ्रान्तेः सकाशात् ३० स्वलक्षणव्यवस्थाऽविसंवादः | 'यतः' इति चाक्षेपे, नैव स्यात् । एवं मन्यते - विकल्पस्य कस्य
(१) 'नान्तरमुच्यते ' इति पुनर्लिखितम् । (२) अन्तरम् । (३) प्रतिभासभेदस्य वस्तुभेदकत्वाभावात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org