________________
११॥२३] न सारूप्यादिवशादर्थग्रहणम्
७२९ भवतो भवेत् ? यदि मतम्, आद्यं नीलज्ञानं पूर्वनीलज्ञानमन्तरेण जातं तन्न तस्य नीलता पूर्वज्ञाननीलताकृता, तथा अन्यत्रापि इति ; तन्न सारम् ; यतः यथासंभवं हेतुफलभावात् । ततः स्थितम्-तजन्मसारूप्यलक्षणं व्यभिचरतीति । तदव्य (तदध्य)वसायसहितं न तथा इति चेत् ; अत्राह-तदध्यवसायहेतुत्वं च तस्य अर्थाकारज्ञानस्य व्यवसायकारणत्वं च व्यभिचरति । कुतः ? इत्याह-क्वचिद् इत्यादि ।
[५६७ख] नन्वेवंबहिरर्थस्य अग्रहणमेव प्रकारान्तरासंभवादिति पायसे घृतप्लवः सौगतजनस्य इति चेत् ; अत्राह-प्रत्यर्थनियता इत्यादि ।
[प्रत्यर्थनियता बुद्धिः प्रत्यर्थविषया सती।
तजन्म[सारूप्यतदध्यवसायेषु सत्स्वपि] ॥२३॥ · तथा च समानेऽपि अर्थग्रहणे अकारणं चार्थ विषयीकुर्वतो न कश्चिद् व्याघातः । १० संवादस्य 'प्रत्यक्षस्यापि व्यतीतस्य अप्रतिभासनात् । अनागतार्थस्य संप्रत्यभावेऽपि विषयतोपपत्तेः अविसंवादः व्यवहारात् । अक्षशब्दज्ञानयोः स्वार्थप्रतिपत्ति प्रति नान्तरमुत्प्रेक्षामहे । प्रतिभासभेदस्य वस्तुभेदकत्वाभावात् ।] ___ प्रत्यर्थनियता बुद्धिः। किंभूता ? इत्याह-प्रत्यर्थ इत्यादि । केषु सत्स्वपि ? इत्याह-तजन्म इत्यादि ।
___ कारिकार्थं दर्शयति-'समानेऽपि' इत्यादिना । तथा च तेन प्रकारेण अर्थग्रहणे सति अर्थग्रहणेऽकारणं च अर्थ विषयीकुर्वतः संवेदनस्य न कश्चित् प्रत्यक्षादिबाधलक्षणो व्याघातः। संवादो न स्यादिति चेत् ; अत्राह-संवादस्य इत्यादि । प्रतिपादितमेतत् । तथापि स्वकारण एवाऽविसंवाद इति चेत् ; अत्राह-प्रत्यक्षस्यापि इत्यादि । व्यतीतस्य ज्ञानात्मनि अप्रतिभासनात् सारूप्यनिषेधात् भाविकारणनिराकरणादिति भावः ।।
ननु भविष्यदर्थविषया बुद्धिनिर्विषया, तत्काले तदर्थस्यासंभवेन तत्राप्रतिभासनात् , तदस्याः कथमविसंवाद इति चेत् ? अत्राह-अनागतस्य इत्यादि । अनागतस्य अर्थस्य मरणादेः संप्रति अरिष्टादिकाले अभावेऽपि विषयतोपपत्तेः अरिष्टलिङ्गजनितबुद्धिगोचरतोपपत्तेः अविसंवादः । कुतः ? इत्याह-व्यवहार इत्यादि ।
ननु भावी चेत् मरणादिः कथं प्राक्प्रतिभासगोचरः ? प्रागनुत्पन्नः ‘भावी' इत्युच्यते, २५ अनुत्पन्नश्च खरविषाणवत् न तद्गोचरः, इतरथा [५६८क] न भावी, वर्तमानघटादिवत्, ततो भविष्यदर्थबुद्धिनिर्विषया इति चेत् ; अत्राह-अक्ष इत्यादि । अक्षशब्दयोः कार्यभूते वस्तुज्ञाने, शब्दज्ञानग्रहणम् उपलक्षणम् तेन अनागतविषयम् अविशदं सर्व विज्ञानं गृह्यते । तयोः स्वार्थप्रतिपत्तिं प्रति नान्तरं भेदमुत्प्रेक्षामहे । एवं मन्यते-यथा भविष्यदर्थः तबुद्धिकाले नास्ति,
(१) अनुकूलविकल्पोत्पादः तदध्यवसायः । (२) व्यभिचारतीति । (३) शुक्ले शङ्ख पीतकारज्ञानादुत्पन्नेन समनन्तरज्ञानेन व्यभिचारीति । (४) भविष्यदर्थस्य ।
२०
९२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org