________________
सिद्धिविनिश्चयटीकायाम्
[ ११ शब्दनयसिद्धिः
परस्परसदृशत्वात् नो चेत् न यदि परस्परवीक्षणं तासां नैकार्थवीक्षणम् एकस्यार्थस्य ग्रहणं न भवेत्, तंत्रापि सारूप्यमेव [ ५६६ ख ] ग्रहणकारणं तत्तु अव्यभिचारीति भावः ।
कारिकां विवृण्वन्नाह – सह एकार्थोपनिबद्धदृष्टीनाम् इत्यादि । सह युगपद् एकस्मिन्नर्थे उपनिबद्धाः दृष्टयो येषां तेषां पुरुषाणां यथार्थानुकरणं तथा अन्योऽन्यानुकरण५ मवश्यंभावि ततोऽर्थोपलब्धिरिव अन्योऽन्योपलब्धिः । कुतः ? इत्याह - विषयरूप तैव इत्यादि ।
७२८
१०
परमतमाशङ्कते -“नाकारणम्" इत्यादि । अत्र दूषणमाह-न तर्हि अर्थसारूप्यम् इत्यादि । कुतः ? इत्याह- सत्यपि तस्मिन् अर्थसारूप्ये प्रामाण्यव्यभिचारात् उक्तया - (उक्तन्या) येन ।
ननु सारूप्यमात्रे तद्व्यभिचारः, कारणाच्च तेंद्विशेषोऽव्यभिचारी जायत इति चेत् ; अत्राह-कारणाच्च हेतोरपि । किंभूतात् ? आलम्बनाभिमतात् अनेन समनन्तरादिनिरासः ' संवित्तिर्न वै नैव विशेषान्तरं प्रतिलभते अन्यत्र तदाकारानुकरणात् कारणा[नु]करणमेव विशेषं लभत इत्यर्थः । भवत्वेवमिति चेत्; अत्राह - तत्पुनः इत्यादि । नीलतयेव दा (जडा) - त्मनापि सारूप्यम् इति स्वतराम् (सुतराम् ) इत्यनेन दर्शयति । ज (तज्ज) न्मादिकमपि १५ व्यभिचारयन्नाह-त[ज]न्मेत्यादि । कुतः ? इत्याह- समानार्थ इत्यादि । समानः सदृशोऽर्थो येषां दर्शनानां तानि तथोक्तानि दर्शनानि तेषां नानैकसन्तानाः तेषु संभवात् समानार्थदर्शनानां सन्तानेषु संभवात् तज्जन्मसारूप्ययोः । तथाहि - पितृशरीरात् जायमानमपत्यशरीरं यथा कदाचित्तदाकारं तथा तच्चेतसोऽपत्यचित्तं कदाचित्तदाकारमुपलभ्यते, [५६७क] जन्यजनकयोः प्रायेण समानत्यागादिचित्तव्यवहारप्रसिद्धेः । न चापत्यचित्तं जनकचेतसि प्रमाणम्, इतरथा २० प्रकृतपुरुषस्य परचित्तप्रत्यक्षता इति व्याहतमेतत् - * " शरीर प्रत्यक्षत्वेऽपि न बुद्धि: प्रत्यक्षा, बुद्धिविकल्पे संशयात्" इत्यादि । तथा, समानार्थदर्शनैकसन्तानेषु भिन्ना तेषु ( भिन्नेषु) संभवात्तयोः' । तथाहि-[नीलात् नीलज्ञानं तस्माच्चापरापराणि] नीलज्ञानानि जायन्ते तद्रूपाणि, तानि प्रमाणम्, बहिस्ततोऽप्रवृत्तिप्रसङ्गात् ।
१२
93
स्यान्मतम् - तेभ्यो ” जन्मैव न तद्रूपता; अर्थापि (अर्थेऽपि ) " सा न भवेत् । दृश्यते नीलतया २५ इति चेत्. ; बोधरूपतया बोधादपि इति समानम् । तावन्मात्रेण भवतु न नीलतया इति चेत्; न; अंशेन जन्यजनकभावप्रसङ्गात् । तथा, पूर्वज्ञानम् उत्तरस्य बोधरूपतया जनकं न नीलरूपतया तथा उत्तरं तथैव जन्यथा ( जन्यं स्यादिति) यथा बोधात् तद्रूपता तथा नीलादपि (नीलतापि ) स्यात् । अर्थस्य वैयर्थ्यमिति चेत्; सार्थकत्वेऽपि पूर्वदोषानतिवृत्तिः । यदि वा 'नैकस्य नानाकारानुकरणं विरुद्धम्' इत्युक्तम् ; कथमन्यथा सर्वदर्शिज्ञानम् अशेषनीलाकारानुकारि
(१) एकार्थे । ( २ ) सारूप्यम् । (३) विषय इति चेत् । द्रष्टव्यम् - पृ० १८८ टि० ७ (४) सारूप्यविशेषः । (५) आदिपदेन सहकार्यधिपतिप्रत्ययौ ग्राह्यौ । ( ६ ) तजन्मसारूप्यलक्षणं व्यभिचरतीति । (७) पितृचेतसः । ( 4 ) समानदानादिप्रवृत्तिदर्शनात् । ( ९ ) जन्मसारूप्ययोः । (१०) पूर्व नीलज्ञाने । (११) पूर्वनीलज्ञानेभ्यः जन्मैव उत्तरनीलज्ञानानां न तद्र ूपता । ( १२ ) तद्र ूपता । (१३) बोधरूपतामात्रेण ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org