________________
११।२२] न सारूप्यादिवशादर्थग्रहणम्
७२७ लम्बनाः पञ्च विज्ञानकायाः" इति राद्धान्तात् । एवं मन्यते-यथैकज्ञानम् समानकालमनेकमर्थमनुकरोति तथा भिन्नकालमपि इति निराकृतमेतत्-*"वर्तमानमात्रवृत्तिः अक्षाणाम्" इति ।
ननु ज्ञानसमूहः संचितालम्बनः, प्रत्येकं तु ज्ञानम् एकैकपरमाणुनिष्ठम् । तदाह-कायग्रहणात् इत्यादि । समूहाभिधानात् प्रत्येकं संचितालम्बनत्वमय(मेव) ज्ञानानाम् इत्येव (व) ५ चेद् अत्रोत्तरमाह-न इत्यादि । न इति परपक्षप्रतिक्षेपे । कुतः ? इत्याह-स्थूलैकप्रतिभास(सा)विरोधात् । निदर्शनमाह-सन्तानान्तरवदिति । शेषमत्र चिन्तितम् । सारूप्यवशादर्थग्रहणे दूषणान्तरमाह-एकार्थ इत्यादि ।
एकार्थसन्निकृष्टाक्षदृष्ट्यन्योऽन्यवीक्षणम् ।
अन्योऽन्याकारसंवित्त्वान्नो चेन्नैकार्थवीक्षणम् ॥२२॥ सहकार्थोपनिबद्धदृष्टीनां यथार्थानुकरणं तथा अन्योऽन्यानुकरणमवश्यम्भावि, ततोऽर्थोपलब्धिरिव अन्योऽन्योपलब्धिः विषयरूपतैव [यतो ग्रहणकारणम्] । नाकारणं [विषय इति चेत् ] न तर्हि अर्थसारूप्यम् , सत्यपि तस्मिन् प्रामाण्यव्यभिचारात् , आलम्बनाभिमतात् कारणाच संवित्तिर्नवै विशेषान्तरं प्रतिलभते अन्यत्र तदाकारानुकरणात् । तत्पुनः नीलतयेव जडात्मनापि सुतरां सारूप्यम् । तंजन्मसारूप्यलक्षणं व्यभिचरति १५ समानार्थदर्शननानकसन्तानेषु संभवात् । तदध्यवसायहेतुत्वं च । क्वचित् ]
एकस्मिन् नर्तकीलक्षणे अर्थे सन्निकृष्टानि संसृष्टानि अक्षाणि यासां [दृष्टीनां] दर्शनानां तासाम् अन्योऽन्यवीक्षणं । कुतः ? इत्याह-अन्योऽन्याकारसंवित्त्वात्
(१) द्रष्टव्यम्-पृ० २५ टि० १० । (२)तुलना-"योग्यदेशस्थितेऽक्षाणां वृत्ति तीतभाविनि । तदाश्रितं च विज्ञानं न :कालान्तरभाविनि ॥"-प्र. वार्तिकाल० पृ. २४६ । (३) अत्रायं पूर्वपक्षः-"तस्माच्चक्षुश्च रूपं च प्रतीत्योदेति नेत्रधीः। (३।१९०) भिन्नकालं कथं ग्राह्यमिति चेद् प्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ कार्य बनेकहेनुस्वेऽप्यनुकुर्वदुदेति यत् । तत्तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते ॥ (३।२४७-४८) अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपतां । तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता ॥" -प्र० वा० ३। ३०५ । (४) “न तजन्म न ताद प्यं न तद्वयवसितिः सह । प्रत्येकं वा भजन्तीह प्रामाण्यं प्रति हेतुताम् ॥"-लघी० श्लो० ५८ । “तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् । संवेद्यं स्यात् समानार्थ विज्ञानं समनन्तरम् ॥"-प्र० वा० ३।३२४ । (५) पूर्वपक्षः-"अविकल्पमपि प्रत्यक्षं विकल्पोत्पत्तिशक्तिमत् । निःशेषव्यवहाराङ्गं तद्द्वारेण भवत्यतः ॥"-तत्त्वसं श्लो० १३०६ । (६) “न केवलं विषयबलात् दृष्टेरुत्पत्तिः अपि तु चक्षुरादिशक्तेश्च । विषयाकारानुकरणाद् दर्शनस्य तत्र विषयः प्रतिभासते न पुनः करणम् तदाकारानुकरणादिति चेत्तर्हि तदर्थवत् करणमनुकर्तुमर्हति न चार्थ विशेषाभावात् । दर्शनस्य तज्जन्मरूपाविशेषेऽपि तदध्यवसायनियमाद् बहिरर्थविषयत्वमित्यसारम् ; वर्णादाविव उपादानेऽप्यध्यवसायप्रसङ्गात् ।" -अष्टश०,अष्टस० पृ० १८८। प्रमेयक० पृ० १०८। सम्मति० टी० पृ० ५१० । “ताप्यस्य समानार्थैः तदुत्पत्तेः इन्द्रियादिभिः तद्वयस्य समानार्थसमनन्तरप्रत्ययैः, तत्रितयस्य शुक्ले शङ्ख पीताकारज्ञानेन व्यभिचारात् ।"-प्रमेयरममा० २।९। प्र० मी० पृ. २० । प्र० नय० ४।४७। रत्नाकराव० ४।४७ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org