________________
७२६
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः कायग्रहणात् प्रत्येकं संचितालम्बनत्वमेव इति चेत् ; न ; स्थूलैकप्रतिभासाविरोधात्, सन्तानान्तरवत् ]
प्रत्यक्षं सामान्यगोचरं कथं मतम् अभ्युपगतं सौगतस्य न स्याद् भवेदेव। किं कुर्वत् ? इत्याह-पश्यतु(त) किम् ? इत्याह-अर्थाकारं समं सदृशम्। कयोः ? स्वार्थयोः। ५ किंभूतयोः ? इत्याह-कार्यकारणयोः यथासंख्येन ।
कारिकां विवृण्वन्नाह-[विषय] विषयिणोः इत्यादि । सदसत्सारूप्यकानुभवलक्षणपर्यन्तं गतार्थमसकृत् । अस्यानभ्युपगमे दूषणमाह-तत्प्रत्यक्षबुद्धिः (द्धः) इत्यादि । तस्य स्वलक्षणस्य या प्रत्यक्षबुद्धिः तस्याः तत्सारूप्यव्यतिरेकेण यदि अर्थदर्शनं निराकारेण ज्ञानेन
योग्यताबलाच्चेद् अर्थसाक्षात्करणं तेन तद्बलेन तद्वद्य(तद्व्य)वधानात् [५६५ ख] सन्भि१० कर्षादिवत् साधकतमतैव मा भूत् , ततः किं सारूप्यकल्पनया ? सारूप्यमेव साधकतममिति
चेत् ; अत्राह-तत्पुनः सारूप्यं ज्ञानार्थयोः सादृश्यं संचित्तोरेव(संवित्तेरेव) रूपं स्वभावः अनुभूतम् । एवकारफलं दर्शयति-नार्थस्य तद्र पमनुभूतमिति । कुतः ? इत्याह-कुतः इत्यादि । कुतः प्रमाणात् परस्य अर्थोपलब्धिः न कुतश्चित् अन्यत्रोपचारात् । तत एव तदुपलब्धिर्यथा चैत्रमित्रयोः चैत्रदर्शनाच्चैत्र[सदृशे मित्रे] दर्शनोपचारः ।
एतदुक्तं भवति-उभयदर्शनात् सारूप्यप्रतिपत्तिर्यथा चैत्रमित्रयोः, न च परस्य अर्थदृष्टिः तत्कथं तद्गतसारूप्यप्रतीतिः उपचारात् ? इति त्वभ्युपगम्य उक्तम् , न भावतः । नहि अदृष्टमित्रस्य दर्शनमुपचारतः चैत्रे भवति । तदुपलब्धिः उपाचारादेव तु इति चेत् ; अत्राह-न चैतत् सारूप्यं कार्यकारणभाव एव स्यात् अपि तु तदभावेऽपि यमलकयोरिव स्यादिति भावः, यतः तत्रैव तद्भावात् समकालभाविनोऽर्थस्य भविष्यतो वा दर्शनं न भवेद् भवेदेव । तथा च २० प्रज्ञा क र स्य कुतो भाविन्येव वर्तनात् प्रत्यक्षं प्रमाणं स्यात् ?
ननु अकारणे सारूप्ये अविसंवादो न स्यादिति चेत् ; अत्राह-न चैवम् अविसंवादो न स्यात् भवेदेव यमलकवत् ।
प्रकृतमुपसंहरन्नाह-तद् इत्यादि । यत एवं तत्तस्माद् एतन्नीलाद्याकारं ज्ञानं त्रिकालविषयसारूप्यं त्रयः कालो विषयो यस्य सारूप्यस्य तद्विभूत्सम्भव (तत्तथोक्तम् ) कुतः कारणस्यैव २५ विनियम्येत यतो [५६६ क] विनियमाद् विकल्पज्ञानवत् सामान्यगोचरं न स्यात् भवे
देव । कथमेकस्य त्रिकालगोचरार्थानुकरणमविरुद्धमिति चेत् ? अत्राह-न चैकरूपेण एकस्वभावेन ज्ञानेन अनेकार्थानुकरणं विरुद्धम् । कुतः ? इत्याह-संचितालम्बनतोपगमात् । संचिता[:] सन्निवेशविशेषविशिष्टाः परमाणव आलम्बनं येषां तेषां भावः तत्ता तस्या उपगमात् । केषाम् ? इत्याह-पञ्चविज्ञानकायानाम् चक्षुरादिज्ञानसमूहानाम् *"संचिता
(१) योगाचारस्य । (२) परमार्थतः। (३) मित्रम् अजानतः पुरुषस्य । (४)सहजातयोः । (५) “ततो भाव्यर्थविषयं प्रमाणान्तरगोचरम् । प्रमाणमध्यारोपेण व्यवहारावबोधकृत् ॥"-प्र. वार्तिकाल० पृ० ५। (६) अकारणभूतेन अर्थेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org