________________
११।२०-२१ ] सदृशपरिणात्मकं सामान्य प्रत्यक्षग्राह्यम् स्वलक्षणेष्वस्ति इत्येतावता प्रकृतं सौगतं साधयेत् । कुतः १ इत्याह-अव्यभिचारात् जैनस्य उभयभावं साधयतीति भावः ।
न च जैनप्रसिद्धस्य सामान्यस्य असदर्थज्ञानाविशिष्टप्रत्ययग्राह्यत्वम् ; इत्याह-स्थूल इत्यादि । [५६५क] ।
[स्थूलस्यैकस्य ज्ञानस्य मिथ्या तत्त्वव्यवस्थितिः। ५
कथं मिथ्याविकल्पैः स्यात् स्वांशमात्रावलम्बिभिः ॥२०॥ इन्द्रियार्थविकल्पबुद्धिः परमार्थतः स्थूलैक[तत्त्वम् ] इन्द्रियार्थसन्निकर्षमाश्रित्य. बहिरर्थग्राहित्वात् स्वयं ग्राह्याद्याकारां स्वसंवित्तिं वा व्यवस्थापयन्ती कथं भ्रान्ति म ? सामान्यस्य च "]
स्थूलस्यैकस्य घटादितत्त्वस्य ज्ञानं तया (स्य) मिथ्यातत्त्वव्यवस्थितिः । १० कथं मिथ्याविकल्पैः स्यात् । किंभूतैः ? इत्याह-खांश इत्यादि । निर्विकल्पनिषेधात् न तैः स्यादिति ।
कारिकां विवृण्वन्नाह-इन्द्रियार्थ इत्यादि । विकल्पबुद्धिः सामान्यबुद्धिः कथं भ्रान्तिर्नाम ? किं कुर्वती ? इत्याह-व्यवस्थापयन्ती परमार्थतः । किम् ? इत्याह-स्थूलैक [तत्त्वम्] इत्यादि । कुतः ? इत्याह-इन्द्रियार्थसन्निकर्षमाश्रित्य बहिरापेक्षया इदमुक्तम् । अन्तरङ्गा- १५ पेक्षया आह-स्वसंवित्तिम् आत्मसंवेदनं साध्य (ध्यं) व्यवस्थापयन्ती कथं भ्रान्तिर्नाम ? किंभूताम् ? इत्याह-ग्राह्य इत्यादि । न तत्त्वतः तथा स्वसंवित्तिः, केवलं भ्रान्त्या तथावभासते, तदुक्तम्-*"अविभागोऽपि बुद्ध्यात्मा" [प्र०वा० २।३५४] इत्यादि । बहिरर्थग्राहित्वात कारणात् । किम् ? इत्याह-स्वयम् इत्यादि । परत्र विपर्ययं दर्शयन्नाह-सामान्यस्य च . इत्यादि। तदेव दर्शयन्नाह-प्रत्यक्षम् इत्यादि ।
[प्रत्यक्षं मतं न स्यात् कथं सामान्यगोचरम् ।
अर्थाकारं समं पश्यत् कार्यकारणस्वार्थयोः ॥२१॥ विषयविषयिणोः सदसत्सारूप्यकानुभवलक्षण 'तत्प्रत्यक्षबुद्धः तत्सारूप्यव्यति- . रेकेण यदि अर्थदर्शनं चेत् ; तेन तद्व्यवधानात् सन्निकर्षादिवत् साधकतमतैव मा भूत्। २५ तत्पुनः सारूप्यं संवित्तेरेवानुभूतं रूपं नार्थस्येति कुतः अर्थोपलब्धिरन्यत्रोपचारात् । न चैतत् कार्यकारणभाव एव स्यात् यतः तत्रैव तद्भावात् समकालभाविनो भविष्यतो वा दर्शनं न भवेत् । न चैवं यमलकवदविसंवादो न स्यात् । तदेतत् ज्ञानं त्रिकालविषयसारूप्यं कुतः कारणस्यैव विनियम्येत यतः विकल्पज्ञानवत् सामान्यगोचरं न स्यात् । न चैकरूपेण अनेकार्थानुकरणं विरुद्धम् , संचितालम्बनतोपगमात् पञ्चविज्ञानकायानाम् । ३०
(1) 'स्वांशमात्रावलम्बिभिः' इति भावः। (२) ग्राह्यग्राहकाद्याकाराम् । (३) ग्राह्याद्याकारा । (१) 'विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ।' इति शेषः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org