________________
सिद्धिविनिश्चयटीकायाम्
[ ११ शब्दनयसिद्धिः
तन्न युक्तम् - * " शब्देनाव्यापृताक्षस्य " इत्यादि । स्वलक्षणे शाब्दन्द्रियज्ञानयोः न प्रतिभासभेदोऽस्ति, तथापि अभ्युपगम्य उच्यते स्पष्टेतर इत्यादि ।
१०
७२४
प्रकृतमुपसंहरन्नाह-तन्न इत्यादि । परमपि परकीयहेतुं तथाविधं दर्शयन्नाह - तथा च इत्यादि । [तथा च ते]नैव च प्रकारेण प्रत्यक्षेण विषयीकृता स्थूलाकारा व्यक्तिर्विशेषः प्रत्यक्ष५ व्यक्तिः तस्याः सकाशात् तत्त्वान्यत्वाभ्यामवाच्यत्वम् । केषाम् ? इत्याह- स्वलक्षणानाम् । 'तदहेत (तु) त्वे' इत्यादिना हेत्वन्तरं पुनरपि दूषयन्नाह - साधारणत्वात् सामान्यस्य अवस्तुत्वे अङ्गीक्रियमाणे । किम् ? इत्याह- स्थूलस्य इत्यादि । अस्य अन्यत्रातिदेशं कुर्वन्नाह-ए तै (एतेन इ)त्यादि । लिङ्गान्तरं दूषयति अर्थक्रियाम् इत्यादिना । पुनरपि लिङ्गान्तरं निराचष्टे[५६४] सङ्क ेत इत्यादिना ।
एतदपि कुतः ? इत्याह- स्वलक्षणम् इत्यादि ।
[स्वलक्षणमनिश्चयमसन्निश्चितमित्यपि ।
मिथ्यार्थनिश्चयैकान्तात् किल तत्त्वं प्रपद्यते ॥ १९ ॥
स्वलक्षणविषयं व्यवस्थापयेत् । कथश्च एतदुभयं तत्त्वं परमार्थतः असदर्थज्ञानाविशिष्टप्रत्यय ग्राह्यत्वात् ? नन्वयम् असदर्थज्ञानस्वलक्षणेषु भवन् कथं सामान्याभावं १५ साधयेत् ? साधयन् वा कथं स्वलक्षणाभावं न साधयेत् ? उभयत्र अयमपरोऽस्य दोषोऽस्तु न पुनः स्वलक्षणेष्वस्तीत्येतावता प्रकृतं साधयेत् व्यभिचारात् । ]
स्वलक्षणं परपरिकल्पितपरमाणुळक्षणम् अनिश्चय (अनिश्चेय) मविकल्पपरिच्छेद्यम् इति असदविद्यमानं निश्चितमित्यपि मिध्यार्थनिश्चयैकान्तात् किल तत्त्वं प्रपद्यते सौगतः ।
२०
कारिकां विवृण्वन्नाह–स्वलक्षणविषयम् इत्यादि व्यवस्थापयेत् इति पर्यन्तं सुगमम् । कथं च १ न कथंचिद् एतत् स्वलक्षणविषयमविकल्पकम् असत्सामान्यविषयं विकल्पज्ञ इत्युभयं तत्त्वं परमार्थः तः(र्थतः ;) इत्याह- असदा ( द )र्थ इत्यादि (?) दृष्टान्तः । नन्वेतन्निदर्शनमसिद्धम्, सामान्यस्याप्यभावे यस्मात् असदर्थज्ञानाविशिष्टा (ष्ट ) प्रत्ययग्राह्यत्वादित्ययं हेतुः, स च स्वलक्षणे सत्यप्यस्ति तदभावे न किञ्चित् स्यात्; तदाह - अनन्वयम् ( नन्वयम् ) इत्यादि । २५ अयम् अनन्तरोक्तो हेतुः असदर्थज्ञानस्वलक्षणेषु असन्नर्थो यस्य तत्तथोक्तं ज्ञानं येषु तानि तथोक्तानि स्वलक्षणानि तेषु भवनु (न्) कथं सामान्याभावं साधयेत् ? साधयन् वा सामान्याभावं कथं तत्स्वलक्षणाभावं न साधयेत् । कुतः ? इत्यथाह - उभयत्र इत्यादि इति नैयायि - कादिः ; अत्र उत्तरमाह-अयमपरोऽस्य सौगतस्य नानेकान्तवादिनः दोषोऽस्तु न पुनः
(१) “यच्छास्त्रम्-शब्देनाव्यापृताख्यस्य बुद्धावप्रतिभासनात् । अर्थस्य पृ० ६ । उद्घृतोऽयम् - "शब्देनाव्यापृताक्षस्य अर्थस्य दृष्टाविव तदनिर्देशस्य टी० पृ० ५२५ । (२) 'समानत्वात्' इति सम्बन्धः ।
Jain Education International
..
For Personal & Private Use Only
दृष्टाविवेति” – अपोहसि० वेदकम् ॥ " - सन्मति ०
www.jainelibrary.org