________________
१९६१८ सामान्यमपि वस्तु
७२३ त्वादित्यादिकं परकीयं भाषितं परिणामसाधनेन[५६३ख]प्रत्युक्तम् निरस्तं तत्साधनम् । कुत इति चेत् ? अत्राह-सदृश इत्यादि । तदपि कुतः ? इत्याह-'स्थूलस्य' इत्यादि । कथंचिदुपलब्धि साधयन्नाहा- [ह-] संभावितकात्मनोऽपि संभावित एकः अखण्ड आत्मा स्वभावो यस्याः[तस्या] अपि । कस्याः ? इत्याह-संविदः संवित्तेः । कथंचित् चेतनादिरूपेण[न क्षण]क्षयादिना प्रत्यक्षत्वात् । क्षणक्षयादिनापि प्रत्यक्षत्वे दूषणमाह-क्षणिक इत्यादि । ५ क्षणिकः परिमण्डलो निरंशत्वलक्षण आदिशब्दात् स्वर्गप्रापणादिर्यस्य तत्तथोक्तं तच्च तत्स्वलक्षणं च इति, तस्य चाक्षुषत्वे, उपलक्षणमेतत् सर्वाध्यक्षसंवित्तीनाम् , रंसाद्यात्मनापि चाक्षुषत्वं उपलक्षणमेतत् सर्वाध्यक्षसंवित्तीनाम् , S रसाद्यात्मनापि चाक्षुषत्वं स्यात् । तथा[s]प्रतीतिः, उभयत्र समानाः । शेषेन्द्रियवैफल्यं स्यादिति चेत् ; अत्राह-शेषेन्द्रियसामर्थ्य प्रमाणान्तरस्य अनुमानस्येव तद्वत् , समारोपव्यवच्छेदार्थम् अनुमानसामर्थ्यं न विरुध्यते तथा चक्षुषा १० रूपवता रसादिके गृहीतेऽपि न विरुध्येत । यथा प्रत्यक्षेण नीलवत् क्षणिकत्वे प्रतिपन्नेऽपि तत्समारोपव्यवच्छेदार्थम् अनुमानसामर्थ्य न विरुध्यते तथा चक्षुषा रूपवत् रसादिके गृहीतेऽपि तत्समारोपव्यवच्छेदार्थ शेषेन्द्रियसामर्थ्य न विरुध्यते । कथम् ? इत्याह-पारम्पर्येण शेषेन्द्रियेभ्यो रसादिज्ञानं ततो विकल्पः तस्मात् समारोपव्यवच्छेदः । नहि शेषेन्द्रियमन्तरेण तज्ज्ञानं तदन्तरेण तद्विकल्पः । तदाह-तनिर्णय इत्यादि । तस्मात् शेषेन्द्रियात(यात् तज् )- १५ ज्ञानाद्वा निर्णयविशेषस्य उपपत्तेः।
अधुना अभिधेयत्वादीनां परसाधनानामनैकान्तिकत्वं दर्शयन्नाह-स्वलक्षणे इत्यादि । [५६४क]
[स्थलक्षणेऽभिधेयत्वाद्यस्ति तेनाप्यसाधनम् ।
सामान्याभावतत्त्वादेः तदभावं तु साधयेत् ॥१८॥ २० चक्षुर्बुद्धरतदाभासत्वेऽपि यदि स्वलक्षणं विषयः ; शब्दबुद्ध किन्न स्यात् ? स्पष्टेतर' 'तन्न "तथा च प्रत्यक्षव्यक्तः स्वलक्षणानां तत्त्वान्यत्वाभ्यामवाच्यत्वम् । तदहेतुत्वे साधारणत्वात्सामान्यस्यावस्तुत्वे स्थूलस्य "एतेन 'अर्थक्रियाम् ""सङ्कत...]
स्वलक्षणे अभिधेयत्वादि आदिशब्दाद् वस्तुनः तत्त्वा[न्यत्वा]भ्यामवाच्यत्वादिपरिग्रहः, अस्ति विद्यते तेनापि न केवलम[न]न्तरन्यायेन असाधनमभिधेयत्वा[य]- २५ लिङ्गम् । कस्य ? इत्याह-सामान्य इत्यादि । सामान्याभावतत्त्वम् आदिर्यस्य अवयव्याधभावस्य, तस्य व्यभिचारादिति मन्यते । तस्यापि पक्षीकरणाददोष इति चेत् ; अत्राहतु शब्दः शिर[:]कम्पे। तदभावं स्वलक्षणाभावं किं तु साधयेत् ] तत्साधने सर्वव्यवहारविलोप इति भावः ।।
कारिकायाया (कां)व्याख्यातुमाह-चक्षुर्बुद्धः इत्यादि । अतदाभासत्वेऽपि अस्वलक्षणा- ३० भासत्वेऽपि यदि स्वलक्षणं विषयः शब्दद्वेः (शब्दबुद्ध:) किं न स्यात् भवेदेव स्वलक्षणं विषयः।
(१) अन्यथा क्षणक्षयानुमानवैयर्थ्य स्यात् । (२) एतदन्तर्गतः पाठो द्विलिखितः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org