________________
७२२
सिद्धिविनिश्चयटीकायाम् [११ शब्दमयसिद्धिः नानारूपा हिर्यस्मात् वृत्तिः वर्तनं परिणामानाम् । तथाहि-क्वचित् तत्र तज्जातीये च गुणाभिव्यक्तिः, यथा सर्वत्रात्मनि ज्ञाना (ज्ञाना) भिव्यक्तिः । कचित् तत्रानभिव्यक्तिः तज्जातीये व्यक्तिः उक्तवत् । क्वचित् तत्र तज्जातीये वा किं व्यक्ति (वाऽनभिव्यक्तिः) परमतेऽपि आत्मादिविभुत्ववत् ।
आश्रयादर्शनात्तदर्शनमिति चेत् ; न ; शब्दाग्रहणप्रसङ्गात् । यस्य च पुद्गलविकारा[:] पृथिव्यादयः ५ तस्य [५६३क] जलादिशशभीये(सजातीये) पार्थिवविकारे गन्धाधभिव्यक्तिः सुलभैव इति सर्व सुस्थम् । सौगतं प्रति तत्प्रसिद्ध निदर्शनमाह-स्वसंवित्तेरपि इत्यादि । चर्चि[तं]तदत्रैव । कुतः तदसंभवः ? इत्यत्राह-तस्याः स्वसंवित्तः अन्यतो ग्राह्याद्याकाराद् या [व्यावृत्तिः तया प्रतिभासनात् । सिद्धं फलं दर्शयन्नाह-'सकृत' इत्यादि । सुगमम् । . यत एव परिणामसिद्धिः अत एव सिद्धिम् ; इत्याह-सामान्यस्य इत्यादि ।
[सामान्यस्याभिलाप्यत्वादेः स्वलक्षणविपर्ययात् ।
यदुक्तं तत्प्रतिव्यूढम् अनेकान्तात्मसाधनैः ॥१७॥ यत्पुनः 'न हि सदृशपरिणामसामान्यं प्रतिषेधुं शक्यम् । अतदात्मनः स्वलक्षणस्य स्वाकारज्ञानार्थक्रियायामनुपयोगात् । न हि संवित्तौ परस्पर । तदेतत्
सामान्यमवस्तु अभिधेयत्वात् अर्थक्रियाऽसमर्थत्वादित्यादि तत्साधनं परिणामसाधनेन १५ प्रत्युक्तम् । सदृश 'स्थूलस्य 'असंभावितैकात्मनः संविदः कथञ्चित् प्रत्यक्षत्वात् । क्षणि
कपरिमण्डलादिस्खलक्षणस्य चाक्षुषत्वे रसाद्यात्मनापि चाक्षुषत्वं स्यात् । शेषेन्द्रियसामर्थ्य प्रमाणान्तरवत् पारम्पर्येण समारोपव्यवच्छेदार्थ न विरुध्येत,तन्निर्णयविशेषोपपत्तेः] ___अभिलाप्यत्वम् आदिर्यस्य वस्तुनः तत्त्वाभासवाच्यत्वादेः स तथोक्तः तस्मात् । हेत्वन्तरमाह-स्वलक्षणविपर्ययात् स्वलक्षणम् अर्थक्रियाकारित्वं [तद्विपर्ययः] तस्माच्च २० सामान्यस्य यदवस्तुत्वं परेण उक्तम् तत्प्रतिव्यूढम् निरस्तम् । कैः ? इत्याह-अनेकातात्मसाधनैः।
कारिकार्थमाह-नहि इत्यादिना । भवत (तु) सदृशपरिणाम एव सामान्यं तदपि परसमानमिति चेत् ; अत्राह-यत्पुनः इत्यादि । नहि प्रतिषेधुं शक्यम् दर्शनभ्रान्ततापत्तेः ।
स्वलक्षणमेघ प्रत्यक्षमिति चेत् ; अत्राह-अतदात्मनः समानपरिणामस्वभावरहितस्य स्वलक्ष२५ णस्य स्वाकारज्ञानं स्वलक्षणाकारज्ञानं तदेव अर्थक्रिया तस्या ननु प्र(तस्याम् अनुप)
योगात् । कुतः ? इत्याह-नहि संवित्तौ इत्यादि । सुगममम् । एतदपि कुतः ? इत्याहपरस्पर इत्यादि । परपक्षमुपन्यस्यति दूषयितुं तदेतत् सामान्यम् इत्यादि । तदेतत् सदृशपरिणामलक्षणं सामान्यम् अवस्तु । कुतः ? इत्याह-अभिधेयत्वात् इत्यादि । अनेन 'अभिलाप्यादेः' इति व्याख्यातम् । 'स्वलक्षणविपर्ययात्' इति कथयन्नाह-अर्थक्रियाऽसमर्थ
(१) शब्दे यथा रूपाद्यनभिव्यक्तिः पुद्गलजातीये घटादौ तदभिव्यक्तिरिति । (२) आत्मादिविभुत्वादेः।
तदाश्रयस्य आकाशस्य अप्रत्यक्षत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org