________________
११।१६ ]
उद्भूतानुद्भूतत्वात् प्रतिनियतगुणोपलम्भः
७२१
नाश्वासः । तदुक्तम् *‘‘अनुपवनं गत्यापि मूत्तं मतम् " [सिद्धिवि ० ११।१] इति [५६२क]। भवन्तु शब्दे रूपादयोऽपि तत्र भिन्ना इति चेत्; अत्राह - व्यतिरेकैकान्त इत्यादि । अव्यतिरेकैकान्ते दोषमाह - अभेदैकान्त इत्यादि । शेषं पूर्ववत् । उदाहरणं दर्शयति तद्यथा इत्यादिना । तेजोद्रव्यस्य क्वचिदवतान्धकारपूरितापवरका दौ का ( कदा चिद् भैष्मरात्रिसमये ' उद्भूतस्पर्शस्य उद्भूतः स्पर्शो यस्य तस्य उपलम्भेऽपि न रूपोपलब्धिः । कुतः १५ इत्याह- तदनुद्भूतवृत्तेः तस्य रूपस्य याऽनुद्भूतवृत्तिः तस्या इति । तथा, आलोकस्य प्रदीपा - द्या लोकस्य रूपोपलब्धौ स्पर्शानुपलक्षणम् । क्वचिदुभयोपलब्धिः स्पर्शरूपोपलब्धिः । कुतः ? इत्याह- उद्भूतवृत्तेरेव यथा अग्निरिति ।
3
ननु यथा उभयोपलब्धिः उद्भूतवृत्तेरुपदर्शिता तथा उभयानुपलब्धिः विपर्ययात् कस्मान्न दर्शिता ? विषयाभावादिति चेत्; न; नायनरश्मिरूपस्य विषयस्य भावात् । नैतदस्ति यतः १० सर्वविशेषगुणानुद्भूता व (तौ च ) एवं भावस्य अनुद्भूतसकलगुणस्य घटादेः सर्वत्र भाव सांख्यदर्शनम् । नायनरश्मिषु अनुमानात्, अन्यत्र विपर्ययात् असमानमिति चेत्; न ; तन्निषेधात् इत्यभिप्रायः तथावदतः ।
ननु पृथिव्यां कचित् सन्नपि गन्धो नोपलभ्यते यथा घटे, एवं रूपादयोऽपि वक्तव्याः । तथा सर्वत्र अप्सु गन्धः, तेजसि गन्धरसौ, वायौ रूपरसगन्धाः, तत्र का वार्त्ता इति ? १५ जलादौ गन्धाद्यभाव इत्येके । तत्राह पार्थिव इत्यादि । प्रत्येकम् आदिशब्दः सम्बध्यते पार्थिवादिः गन्धादिरिति । ततोऽयमर्थः - पृथिव्येव पार्थिवम् आदिर्येषाम् [५६२ख] अबादीनां तेषां गन्धादयः तेषामुपलब्धावपि न केवलमनुपलब्धौ क्रमोऽयमनन्तरोक्तो लक्ष्यते । तथाहि - पृथिव्याः गन्धादयो योगिनां प्रत्यक्षा एवं उद्भूतत्वात् अस्मादृशाम् उभयथा उद्भूतानुद्भूतवृत्तित्वात् । न च यदानुद्भूतिः तदा तदभावः ; चरमक्षणनिषेधातू, रँसात् २० रूपाद्यनुमानाभावप्रसङ्गाच्च । जलादौ योगिनामेव गन्धाद्युपलब्धिः अस्मादृशां विपर्ययः अनुद्भूतत्वात् । अस्मादृशः प्रति पार्थिवगन्धादिग्रहणं परं प्रति दृष्टान्तार्थम् । यथा सतामपि पार्थिव - गन्धादीनाम् अनुद्भूतिः तथा अबादीनामपि । तत्र सद्भावे किं प्रमाणमिति चेत् ? स्पर्श - वत्त्वं ब्रूमः ।
एवं दृष्टान्तं व्याख्याय दान्तिके योजयति तथा इत्यादिना । तथा पुद्गलस्य प्रकृतस्य २५ रसाद्यात्मनोऽपि शब्दात्मनोऽपि शब्दात्मनोपलब्धिः । कुतः ? इत्याह- तद् इत्यादि । तस्य शब्दात्मन उद्भूतिनियमात् ।
ननु पृथिव्यामिव जलादौ गन्धादिसद्भावे क्वचित्तजातीये तदभिव्यक्ति:, हेमसजातीये पावके उष्णता व्यक्तिवत्, न चैवम् इति चेत्; अत्राह - विचित्रा हि इत्यादि । विचित्रा
"
"
(१) वायुशून्य । (२) भीषणरात्रिकाले । (३) अनुद्भूतवृत्तेः । (४) अनुद्भूतरूपस्पर्शंसिद्धिः । (५) नोपलभ्यन्ते । । (६) रूपादिप्रवाहस्वीकारात् । (७) यदि अनुद्भूतिकाले अभावस्तदा । (८) गन्धाद्यभिव्यक्तिः स्यात् । ९१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org