________________
७२०
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः तथापि न तद्भेदैकान्तः । अनेन शब्दपुद्गलस्य शब्दरूपादीनां भेदैकान्तसाधने सहोपलम्भनियमाभावस्य व्यभिचारं दर्शयति । परमाणूनामुपलम्भद (म्भाभावाद) भाव इत्येके [५६१क] स्थूलाकारस्य इत्यपरे तत्कथं तैर्व्यभिचारो हेतोः इति; तत्राह-तदन्यतरापाय इत्यादि । तयोः परमाणुस्थूलाकारयोः अन्यतरः, तस्यापाये अर्थस्य घटादेरनुपपत्तेः तद्वत् न तेषामतादात्म्यै५ कान्तः । तथाहि-स्थूलाकारापाये परमाणव एव, तेषामनुपलम्भेन असत्त्वम् , परमाणू (ग्व) पाये स्थूलाकारमात्रमनवयवः, तथा सति एकदेशचलनादिप्रसङ्गः। दृश्याः भंगाः(भागाः) सन्ति नान्य इति चेत् ; तर्हि प्रागसतां मेघादीनां कुतः प्रादुर्भावः ? अहेतुक इति चेत् ; सर्वः तथा स्यादिति हेतुफलभावविलोपः । निषिद्धोऽद्वैतादिवादः । सूक्ष्मपार्थिवादिभागेभ्यः इति चेत् ;
अनुकूलमाचरसि, परमाण्वनिषेधात् । स्वयं वा[s]दृश्यपरमाणुभ्यो दृश्यपरमाणूत्पादमभ्युपगम्य १० ते तः (तेभ्यः) स्थूलोत्पादं कथं नेच्छेत् ? ।
स्यान्मतम् , अस्तु सूक्ष्म कार्यकाले कारणविलयात; उक्तमत्र अहेतुकत्वप्रसङ्गादिति । ततः सूक्तम्-परमाणुस्थूलाकारवदिति ।
ननु परमाणुभ्यः स्थूलमन्यदेव, कारणात् कार्यस्य अन्यत्वात् , अतः तेषामपि पक्षीकरणात् न तैर्व्यभिचार इति चेत् ; अत्राह-व्यतिरेकैकान्ते भेदैकान्ते पृथसिद्धिप्रसङ्गात् १५ अन्यत्र लौकिके देशे अवयवानाम् अन्यत्र अवयविनः सिद्धिः उपलब्धिः पितापुत्रवत, तस्याः प्रसङ्गात् । कुतः ? इत्याह-सम्बन्धासिद्धेः समवायि (य) निषेधात् । तन्न नैयायिकपक्षो युक्तः ।
. सांख्यपक्षः स्यादिति चेत् ; अत्राह-अभेदैकान्ते परमाणुस्थूलाकारयोः [५६१ख] 'एकत्वैकारयोः', एकत्वैकान्ते सहोपलम्भनियमात् कारणात् व्यर्थम् इन्द्रियनानात्वम् । एवं
मन (एवं न) परमाणूपलम्भः, तत्कथं तदभेदैकान्तः ? तथापि तदुपलम्भकल्पने चक्षुषा रूपोप२० लम्भे रसादीनामुपलम्भ इति व्यर्थमिन्द्रियनानात्वमिति । कथंचित्पक्षे कुतोऽयं न दोष इति
चेत् ? अत्राह-कथंचित्तादात्म्येऽपि न केवलं विपर्यये रूपादेः अपिशब्दः अत्रापि द्रष्टव्यः, न केवलं परमाणुतदाकारयोः, सन्निहितस्य सहानुपलम्भः । कस्मिन् सत्यपि ? इत्याहतत्करणान्तरसाकल्येऽपि तत्कारणं रूपज्ञानकारणं चक्षुः तदन्तरं रसनादिः तस्य साकल्येऽपि । कुतः ? इत्याह-उद्भूतगुण इत्यादि । ततः स्थितम्-परमाणुस्थलाकारवत् इति । यदि वा, २५ शब्दादीनां सहोपलम्भनियमाभावे परस्परम् एकसामग्र्यधीनानाम् माभूताद (माभूद) तादात्म्यै
कान्तः शब्दोपलम्भे रूपाद्यनुपलम्भात, अभावैकान्तस्तु भवेदिति चेत् ; अत्राह-परमाणुस्थलाकारवदिति । स्थूलाकारोपलम्भे परमाणुवत् शब्दोपलम्भे रूपाद्यनुपलम्भेऽपि 'नाभावः' इत्यध्याहारः । कुतः ? इत्याह-तदन्यतरापाये सदा (स चाs) सावन्यतरश्च शब्दो रूपादि
भ्रान्तस्योपाये (श्च तस्यापाये) अर्थस्य चेतनस्येतिरस्य] वानुपपत्तेः । तथाहि-प्रतीयमानस्य ३० शब्दस्य अभावे घटादौ कः समाश्वासः ? अनुमीयमानस्य तस्य तत्र रूपादेरभावे स्थूले परमाणुषु
. (१) चार्वाकाः । (२) अभाव इति बौद्धाः । (३) अवयवशून्यः निरंश इति यावत् । (४) 'एकत्वैकारयोः' इति व्यर्थमत्र पुनर्लिखितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org