________________
११।१६ ]
उद्भूतानुद्भूतत्वात् प्रतिनियतगुणोपलम्भः
प्रकृतोपसंहारमाह - तन्न इत्यादिना । यत एवं तत्तस्मादयं खण्डशः प्रतिपत्तिलक्षणः अपराधो दोषो न विकल्पानामेव किन्तु दृष्टेरपि इति भावः । यतः तेषामेवापराधात् 'दृष्टस्य अर्थस्य अखिलो गुणोदृष्ट एव इत्येकान्तः शोभेत ।
ननु शब्दरूपादीनां पुद्गलद्रव्यधर्मत्वाऽविशेषेऽपि शब्दस्यैव ग्रहणं न रूपादीनाम् इति कुतोऽयं विभागः ? तथा, [५६०ख ] सहोपलम्भनियमाभावेऽपि च तादात्म्यमिति कुत: १५ इति चेत् ; अग्राह- द्रव्याणाम् इत्यादि ।
[द्रव्याणामुपलम्भश्च स्वीयैरुद्भूतवृत्तिभिः । न गुणैस्तेजोद्रव्यादेर्यथानुभूतवृत्तिभिः ॥ १६॥
७१९
नहि शब्दादीनामेकसामय्यधीनानामविनिर्भागवृत्तिभाजां सहोपलम्भनियमाभावेऽपि परस्परमतादात्म्यैकान्तः परमाणुस्थूलाकारवत् । तदन्यतरापाये अर्थस्यानु- १० पपत्तेः । व्यतिरेकैकान्ते पृथक्सिद्धिप्रसङ्गात्, सम्बन्धासिद्धेः । अभेदैकान्ते सहोपलम्भनियमात् व्यर्थमिन्द्रियनानात्वम् । कथञ्चित्तादात्म्येऽपि रूपादेः सन्निहितस्य तत्कारणान्तरसाकल्येऽपि सहानुपलम्भः उद्भूतगुणत्वात् । तद्यथा तजोद्रव्यस्य क्वचित् कदाचित् उद्भूतस्पर्शस्योपलम्भेऽपि न रूपोपलब्धिः तदनुद्भूतवृत्तः, आलोकस्य रूपोपलब्धौ स्पर्शानुपलक्षणम् । क्वचिदुभयोपलब्धिः उद्भूतवृत्तेरेव यथा अग्निरिति । १५ पार्थिवादीनां गन्धाद्युपलब्धावपि अयं क्रमः लक्ष्यते । तथा पुद्गलस्य रसाद्यात्मनोऽपि शब्दात्मनोपलब्धिः तदुद्भूतिनियमात् । विचित्रा हि परिणामवृत्तिः । स्वसंवित्ते रपि -- अन्यतो व्यावृत्त्या प्रतिभासनात् । सकृत् ]
द्रव्याणाम् उपलम्भो दर्शनं गुणैः सह न केवलानाम् । किंभूतैः ? इत्याहस्वीयैः आत्मीयैः न द्रव्यान्तरगतेः । अनेन मुक्तिदशायां विशेषगुणरहितस्य आत्मनोऽनुपलम्भं दर्शयति । पुनरपि किंभूतैः ? इत्याह- उद्भूतवृत्तिभिः उद्भूता पुरुषमात्रस्य ज्ञानग्रहणयोग्या वृत्तिः परिणामो येषां तैः इति । च शब्दो भिन्न प्रकमः, अस्यानन्तरं द्रष्टव्यः । नानुद्भूतवृत्तिभिः; अत ' आह- नानुद्भूतवृत्तिभिः । अत्र निदर्शनमाह-यथा इत्यादि । तेजोद्रव्यादेः आदिशब्देन गन्धद्रव्यादिपरिग्रहः स्तोता (श्रोत्रा) दिभिः उद्भूतगुणैरुपलम्भ इति उद्भूतवृत्तिः (वृत्तिभिः) नानुद्भूतवृत्तिभिः इति, अनेन 'सहोपलम्भनियमात्' इत्यस्य व्यभिचार
माह ।
Jain Education International
For Personal & Private Use Only
२०
नहि इत्यादिना एतदेव दर्शयति-शब्दा आदिर्येषां रूपादीनां तेषाम् । किंभूतानाम् ? एकसाग्र्यधीना[ना]म् अविनिर्भागवृत्तिभाजा (जां) सहोपलम्भनियमाभावेऽपि परस्परमतादात्म्यैकान्त भेदैकान्तौ नहि । केषामिव ? इत्याह- परमाणुस्थूलाकारवत् । परमाणवश्च स्थूलाकारश्च तेषामिव तद्वद् इति । स्थूलाकारोपलम्भेऽपि न तदारम्भकपरमाणूपलम्भ: ३० (१) निर्विकल्पकस्यापि । (२) " तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । " - प्र०वा० ३ । ४४ । (३) वैशेषिकाभिमतस्य । (४) उपलम्भाविषयत्वम् ।
२५
www.jainelibrary.org