________________
७१८
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः ननु चक्षुषा रूपं प्रतीयते रसनेन रसः, एवं शेषेन्द्रियेष्वपि वाच्यम्, न च तत्र अपरमाभाति, न च इन्द्रियान्तरमस्ति यत्र वस्त्वन्तरप्रतिभासः, ततो न रूपादिभ्यः किम[पि]परं पुद्गलस्वलक्षणमेकम्, तदाह-प्रत्यक्षत इत्यादि । प्रत्यक्षात् श्रोत्रादिज्ञानाद् [५५९ख] उक्तविधिना
शब्दादिस्वलक्षणभेदप्रतीतेः कारणादसमानं यथा विकल्पेन अन्यतो व्यवच्छेदः प्रतीयते ५ तथा प्रत्यक्षेणापि इति असदृशमिति चेत् ; उत्तरमाह-न इत्यादि। यदुक्तं परेण तन्न । कुतः ? स्वलक्षणस्य रूपादिपरमाणुलक्षणस्य अव्यवसेयत्वाद् अनिश्चेयत्वात् । एवं मन्यते यथा चक्षुषा केव[लं] रूपं प्रतीयते नान्यात्मकं नाप्पन्या वा (न्यथा) न प्रमाणान्तरापेक्षणमस्ति । स्वार्थानुभवादेव अन्यसमारोपव्यवच्छेदेन तत्त्वसिद्धिरिति चेत् ; अत्राह-स्वार्थानुभवस्य स्वपर
दर्शनस्य व्यवसायात्मकतोपपत्तेः 'तंदपपत्तेः' तदपेक्षणादिति । किंभूतस्य ? इत्याह१० निर्जितान्यसमारोपमनाश्च (मनसः)। भविष्यति तदनुभवो न च व्यवसायात्मक इति चेत् ;
अत्राह-निश्चय इत्यादि । निश्चयश्च आरोपमनश्च तयोः बाध्यबाधकभावः परेण इष्टः अन्यथा तदनुभवस्य व्यवसायात्मकताभावप्रकारेण नोपपद्यत न घटेत अविकल्पान्यसमारोपमनसोरपि बाध्यबाधकभावोपगमात् , तथा च अनुभवगन्धादेव नष्टव्यं समारोपेण इति, 'न'
समारोपवार्तापि न भवेत् । १५ ननु नीलादौ अन्यसमारोपमनसो नानुभावाद् व्यवच्छेदः, अपि तु] सादृश्यदर्शनस्य
तत्क (तत्का)रणस्याभावात् स्वयमेवानुत्पाद इति चेत् ; न, पँधानादिसमारोपस्य सदृशदर्शनाभावेऽपि भावात् । अनाद्यन्तर्वासना तत्र कारणमिति चेत् ; न; अवान्तरवासनातोऽपि समारोपदर्शनात् श्रोत्रियत्रियजोहिद्भ(त्रियोन्मत्त)स्येव अशुचौ शुचित्वस्य। भवत्वेवम् , को दोष इति चेत् ? नीलादौ
तथा अनीलादिसमारोपः स्यात् । तन्निश्चयान्नेति चेत् ; इदमत्र चिन्त्यते-किम् अनुभवात , उत २० उत्तरविकल्पाद्वा ? आद्यविकल्पोः (ल्पे) अनुकूलमाचरसि स्वार्थानुभवस्य' इत्याद्यनिवारणा
[त्] । द्वितीये अन्तराले समारोपप्रवेशे निश्चयो दुर्लभः । अथ अनुभवो हठान्निश्चयमुपजनयति; अनीलवासना अनीलसमारोपम्' इति काचपच्यम् ।
किंच, क्षणिकनिश्चयमपि सं तथोपजनयेत् । असामर्थ्यान्नेति चेत् ; नीलादावपि तदस्तु । तत्र सामर्थ्य नान्यत्रे वि (ति) कल्पनायां दृष्टः सांशत्वे मे (त्वमने) कान्तं प्रतिवहति । २५ तदाह-दृष्टः खण्डशः नीलादौ न क्षणक्षयादौ पाटवं निश्चयोपजन[न]सामर्थ्यमादिर्यस्य
अभ्यासादेः तस्य संभवे अनेकान्तप्रसङ्गात् कारणात् तथा तेन खण्डश इति प्रकारेण अर्थोपलब्धिः अर्थदृष्टिः किन्न प्रतिपद्येत स्वीक्रियेत तो(यतः)अस्वीकारात् शब्दपुद्गलस्य श्रुतिर्न स्यात् । किंभूतस्य ? अनुपात्तस्पर्शाद्यात्मनः अनुपात्तः सन्नपि अगृहीतः स्पर्शाद्यात्मा यस्य इति ।
(१) 'तदपपत्तेः' इति पुनलिखितमि भाति । (२) "निश्चयारोपमनसोर्बाध्यबाधकभावतः ।"प्र० वा० ३।४८ । (३) 'न' इति निरर्थकमन्न । (४)सांख्याभिमतप्रधानादिविकल्पस्य । (५)हठाजनयेदिति । (६) अनुभवः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org