________________
११।१५ ]
न श्रोत्रेण पुद्गलशब्दग्रहणेऽपि रूपादिग्रहः
तत्र काचित् केनचित् प्रतीयते ततो न प्रतिज्ञार्थैकदेशासिद्धो हेतुः, अप्रतीत नाम अतोऽन्यापोहः तेषां विषय इति, तथा स्वलक्षणं शब्दाद्यात्मकम्, तत्र श्रोत्रादिसामग्रीं पुरस्कृत्य अनुभवात् अशब्दव्यवच्छेदः केवलं प्रतीयते । तन्न पुद्गलस्वलक्षणस्यैकत्वेऽपि शेषेन्द्रियाणां कैमर्थक्यं स्यात् । प्रत्यक्षतः शब्दादिस्वलक्षणभेदप्रतीतेः असमानम् ; तन्न ; स्वलक्षणस्य अव्यवसेयत्वात् । निर्जितान्यसमारोपमनसः स्वार्थानुभवस्य व्यव - ५ सायात्मकतोपपत्तेः निश्चयारोपमनसोर्बाध्यबाधकभावः अन्यथा नोपपद्येत । दृष्टेः खण्डशः पाटवादिसंभवे अनेकान्तप्रसङ्गात् तथा अर्थोपलब्धिः, किन्न प्रतिपद्येत १ यतः अनुपात्तस्पर्शाद्यात्मनः शब्दपुद्गलस्य श्रुतिर्न स्यात् । तन्नायं विकल्पानामेव अपराधः यतः दृष्टस्य अर्थस्य अखिल गुणः दृष्ट एवेत्येकान्तः शोभेत ।
1
,
अशब्दः शब्दाभावः न पुनः शब्दादन्यः रूपादीनामपि ततोऽन्यथा द ('अ) १० शब्दव्यवच्छिन्नम्' इति वक्तव्यं स्यात् स आदि र्येषां रूपादीनां तेभ्यः स्वयं व्यवच्छिद्यते स्म तद्व्यवच्छिन्नं शब्दरूपरसस्पर्शगन्धात्माम् (त्मकम् ) इत्यर्थ: । घटादिवदेकं न स्यादिति चेत्; आह-एकमेव विरुद्धधर्माध्यासस्य एकान्तेन अभेदकत्वात् इति भावः । तत् प्रत्यक्षं विशदवेदनवेद्यं यथा भवति तथा व्यवसीयेत निश्चीयेत । अनेन प्रत्यक्षव्यवसाय योरेकत्वमाह- कथंचिदशब्दव्यवच्छिन्नप्रकारेण नारूपादिव्यवच्छिन्नेन केनचित् श्रोत्रेण न १५ चक्षुरादिना । अत्र गन्धद्रव्यं निदर्शनम् । क्वचित् न सर्वत्र देशे । अनेन तस्य व्यापित्वं निषेधति ।
सोपपत्तिकं कारिकार्थं दर्शयति यथा इत्यादिना । यथा [ ५५९ ] सौगतस्य स्वलक्षणमेकं प्रत्येकं प्रत्यक्षम् । किंभूतम् ? इत्याह- सन्नि [हि ] तेत्यादि । तस्य स्वलक्षणस्य यावन्ति पररूपाणि तावत्यो व्यावृत्तयः तत्र तासु व्यावृत्तिषु मध्ये काचिदशब्दादिव्यावृत्तिः केनचित् २० शब्दादिविकल्पेन शब्देन शब्द [ब्दा] द्यभिधाने चा (धानेन ) करणभूतेन प्रतीयते । नहि शब्द इति विकल्पेन अभिधानेन वा नित्यव्यावृत्तिः प्रतीयते ततः तस्मान्न्यायात् न प्रतिज्ञार्थैकदेशासिद्धो हेतुः सत्त्वादिः । कुतः ? इत्याह- अप्रतीतेत्यादि । केषाम् ? इत्याह- नाम इत्यादि । अतः अस्मात् करणात् अन्यापोहः तेषामभिधानविकल्पान्तराणां विषय इति तथा तेन प्रकारेण स्वलक्षणं शब्दरूपम् । किंभूतम् ? इत्याह- शब्दाद्यात्मकम् इति यावत् । तत्र स्वलक्षणे श्रोत्रादिसामग्रीं पुरस्कृत्योत्यत्राद (त्पादिताद) नुभवात् प्रत्यक्षात् अशब्दव्यवच्छेदः केवलं प्रतीयेत नाऽस्पर्शादिव्यवच्छेदः । विकल्पवदनुभवस्यापि व्यवच्छेदविषयत्वात् इति मन्यते । यत एवं तत्तस्मात् न शेषेन्द्रियाणाम् "कैमर्थक्यं वैयर्थ्यं स्यात् तेषामप्रतीतप्रत्यायनार्थत्वात् । कस्मिन् सत्यपि ? इत्याह- पुद्गलस्वलक्षणस्यैकत्वेऽपि इति ।
२५
७१७
(१) कश्चित् पदार्थः । (२) भेदकत्वाभावात् । (३) अत्रायं पूर्वपक्ष:- " तस्मादेकस्य भावस्य यावन्ति पररूपाणि तावत्यस्तदपेक्षया तदसंभाविकार्यकारणस्तस्य तद्भेदात् यावत्यश्च व्यावृत्तयः तावत्यः श्रुतयोऽतत्कार्य कारण परिहारेण व्यवहारार्थाः । " - प्र० वा० स्ववृ० १४४ । ( ४ ) अन्यापोह । ( ५ ): किमर्थस्य भावः कैमर्थक्यम् कस्मै प्रयोजनाय इति भावः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org