________________
७१६
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः खात् सिद्धेः । कुतोऽन्यथा अनुभूते अनुमानम् अनुमितवत् । सामान्यविषयं भावतो निर्विषयत्वं तस्य अभावात्मकलात् । तदभावं विषयीकरोति विकल्पकमिति न परिच्छिनत्तीति अकिञ्चित्करो विकल्पः कुतः साधनम् यतः तत्त्वसिद्धिः समयान्तरवत् ? तदयं किंप्रमाणः परमुपालभेत अशब्दरूपम्...?] ५ तत्त्वमिदं नेदमिति स्थितिः व्यवस्था तस्याम्, अवि (अधि) करण[५५८क] भूतायां स्याद् भवेत् तत्त्वं वस्तुस्वरूपं कुतो विकल्पाविकल्पयोर्मध्ये विकल्पादविकल्पाद्वा न कुतश्चित् द्वयोरपि तदध्यवसायक (यात्म) त्वादिति भावः । यतः तयोः कुतश्चित्तत्र तद्भावात् स्वलक्षणं शब्दः स्फोटः शब्दो नेति व्यवस्थितिः द्वयोरप्यदृष्टकल्पना[s]विशेषात् ।
कारिकां विवृण्वन्नाह-स्वलक्षणविषयम् इत्यादि । जोतिविषयव्यवच्छेदार्थं स्वलक्षण१. विषयग्रहणम् । [अ] विकल्पकं । किम् ? ज्ञानम् स्वार्थसाधनं न तावत् सर्वथा नीलादि
प्रकारेण च (णेव) क्षणक्षयादिनापि । कुतः ? इत्याह-अध्यवसायात्मत्वात् । ततोऽपि प्रतीतिमात्ररूपा सिद्धिः स्यादिति चेत् ; अत्राह-सिद्धः इत्यादि । कुतोऽन्यथा [तस्याः तल्लक्षणत्वाभावप्रकारेण अनुभूते अविकल्पकगृहीते अनुपानं क्षणक्षयादौ प्रमाणं स्यात् । दृष्टान्तमाह
अनुमिते इव अनुमितवत इति । समारोपव्यवच्छेदकरणा[त्] तत्प्रमाणतापि चिन्तिता । १५ तन्न अविकल्पात्तत्त्वसिद्धिः । विकल्पात् स्यादिति चेत् ; अत्राह-'विकल्पज्ञानम्' इत्यनुवर्तते
सामान्यविषयं । ततः किम् ? इत्याह- भावतो निर्विषयत्वं [विकल्पकस्य इति । कुतः ? इत्याह-तस्य इत्यादि । तस्य सामान्यस्य अभावात्मकत्वाद् अन्यते (तो)व्यावृत्त्यात्मकत्वात् । भवत्वभावः सामान्यम्, ततः किम् ? इत्याह-तदभावम् इत्यादि । तदभावे (व)विजातीयव्यावृत्ति विषयीकरोति विकल्पकमित्येवं न "परिच्छिनत्ति' इति प्राप्तम् ततोऽकिञ्चित्करो विकल्पः २० कुतः [५५८ख] साधनं प्रमाणं यतः साधनत्वात् तत्त्वसिद्धि[:] विकल्पात् इति समयान्तेरे(न्तरे)इव तद्वदिति निदर्शनम् ।
प्रकृतमुपसंहरन्नाह-तदयम् इत्यादि । यत एवं तस्मादयं सौगतः किंप्रमाण[:] परं प्रतिवादिनम् उपालभेत । केन रूपेण ? इत्याह-अशब्दरूपम् इत्यादि ।
एवं परमते सौगतदोषपरिहारं विधाय इदानीं जैनमते यदुक्तं ते -रूपादिमत्पुद्गलविका२रस्य ध्वनेः शब्दरूपस्य केनचिद् ग्रहणे तव्यतिरेकिणो रूपादेः तेनैव ग्रहणात् *"तस्माद्
दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः" [प्र० वा० ३।४४] इति वचनात् अन्यत्रापि शेषेन्द्रियवैफल्यमिति । तत्परिहरन्नाह-अशब्दादिव्यवच्छिन्नम् ।
[अशब्दादिव्यवच्छिन्नं प्रत्यक्षमेकमेव तत् ।
गन्धवद् व्यवसीयेत कथञ्चित् केनचित् कचित् ॥१५॥ स्वलक्षणमेकं सन्निहितं प्रत्यक्षम् , तस्य यावन्ति पररूपाणि तावत्यो व्यावृत्तयः,
(१) तन्निश्चायकत्वादिति भावः । (२) सामान्यविषय । (३) सिद्धेः । (४) बौद्धेन । (५) श्रोत्रेन्द्रियेण । (६) जैनमतेऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org