________________
११।१३-१४ ]
स्फोटविचारः
७१५
कर्त्तव्ये अस्ति प्रत्यय: सहकारिकारणं विद्यते श (?) शब्दः प्रतीयते नान्य इति । कारिकार्थं दर्शयन्नाह - सर्वत इत्यादि । सुगमम् ।
दर्शनस्य विभागेन विकल्प [ज] नकत्वमभ्युपगम्य इदमुक्तम् इदानीं तदेव नास्तीति दर्शयन्नाह - यथा इत्यादि ।
[यथार्थोऽनुभवं साक्षात् स्वापेक्षं कर्तुमर्हति । तथार्थानुभवः साक्षादनन्यव्यवसायकृत् ॥१३॥
"
यथा रूपस्वलक्षणं साक्षादुपनिपत्य विज्ञानं जनयत् आत्मनान्तरीयकमाकारं पुरस्कर्तुं नायुक्तं तथा तद्दर्शनं व्यवसायं तेन विशेष ः व्यवसीयेत । दृष्टेः स्वभाव भूतविशेषव्यवसायाभावे कुतः सजातीयस्मृतिः क्षणक्षयादिवत् १]
यथा [येन] योग्यताप्रकारेण अर्थो रूपादिः अनुभवं दर्शनं साक्षाद् अव्यवधानेन १० कर्तुमर्हति । किंभूतम् ? इत्याह- स्वापेक्षं स्वशब्देन अर्थः परामृश्यते तस्मिन् अपेक्षा तदनुभवनाकाङ्क्षा [५५७ख] यस्य तत्तथोक्तम् स्वाकारम् इत्यर्थः । तथा तेन प्रकारेण अर्थानुभवः साक्षाद [न] न्यव्यवसायकृत् न विद्यते अन्य [ त्] स्वरूपान्तरं यस्य तत् अ [न] - न्यत् स्वलक्षणमिति यावत्, तस्य व्यवसायः तत्कृत (तू) । चर्चितमेतत् - * 'अभेदात् सदृशस्मृत्याम्" [सिद्धिवि० १।६ ] इत्यादिना ।
कारिकार्थं दर्शयन्नाह - रूपस्वलक्षणम् इत्यादि । रूपग्रहणमुपलक्षणं रसादेः तदेव स्वलक्षणं साक्षादुपनिपत्य उपढौक्य विज्ञानं स्वानुभवं जनयता (यत्) यथा येन वस्तुस्वभावप्रकारेण नायुक्तमेव [म् ] आत्मनान्तरीयकम् आत्मानम ( त्मनि ) विद्यमानमाकारं पुरस्कर्तुम् तथा तद्दर्शनं स्वलक्षणानुभवः साक्षादुपनिपत्य व्यवसायं नात्मानन्तरीयकमाकारं पुरस्कर्तु मा(तुं ना) युक्तम्, तेन कारणेन विशेषः स्वलक्षणं व्यवसीयेत ।
२०
अधुना प्रकारान्तरेण दर्शनस्य व्यवसायहेतुत्वं निराकुर्वन्नाह - दृष्ट (ष्टे रित्यादि । अयम ) - भिप्रायः - स्वयं व्यवसायात्मिका दृष्टिः, अन्यथा वा स्यात् ? तत्राद्यपक्षे; किमपरेण व्यवसाये[न] ? द्वितीये ; दृष्ट े : स्वभावभूतो विशेषव्यवसायः तस्याभावे अविकल्पकत्वे, कुतः सजातीयस्मृतिः ? नैव । अत्र निदर्शनमाह-क्षण इत्यादि । तदुक्तम् - * " व्यवसायात्मनो दृष्ट े :" [सिद्धिवि० ११४] इत्यादि । अस्ति च परस्य तत्स्मृतिः, ततस्तदन्यथानुपपत्तेः' व्यव- २५ सायात्मिका दृष्टिरिति ।
अधुना श्रोत्रियवत् स्फोटवाद्यपि परस्य दुर्जय इति दर्शयन्नाह - व्यवस्थायाम् इत्यादि ।
[ व्यवस्थायां कुतस्तत्त्वं स्याद्विकल्पाविकल्पयोः ।
यतः खलक्षणं शब्दः स्फोटो नेति व्यवस्थितिः ॥१४॥ स्वलक्षणविषयमविकल्पकं ज्ञानं न तावत् सर्वथा स्वार्थसाधनम्, अध्यवसायात्म- ३० (१) विकल्पजनकत्वमेव । ( २ ) स्मृत्यन्यथानुपपत्तेः । (३) मीमांसकवत् । (४) बौद्धस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org