________________
७१४
सिद्धिविनिश्चयर्टीकायाम् [११ शब्दनसिद्धिः सजातीयेतररूपात् संबन्धि यत् प्रत्यक्षं तद्व्यवसायये निश्वासंय (साययेत् निश्चाय) येत् । किम् ? भेदं व्यावृत्तिम् न (तत्) सर्वतः विजातीयात्तं व्यवसाययेन्न सजातीयपूर्वोत्तरक्षणाभ्यां क्षणिकत्वानुमानवैफल्यापत्तेः यद्वत् तद्वदिति श्रवणादेवं गम्यते तद्वन्नियमः स्यात् गिरां श्रुतेः। ५ कारिक (कां) विवृण्वन्नाह-स्वभाव इत्यादि । स्वलक्षणस्य । तस्य विशेषणमाहस्वभाव इत्यादि । तस्य किम् ? इत्याह-दर्शनम् । तत् कथं कुर्वन् किं करोति ? इत्याहसाक्षाद् अव्यवधानेन व्यवसायं निश्चयं जनयत् (यति)सतत (?) सर्वव्यावृत्तिप्रसङ्गात् । कस्मिन् सत्यपि ? इत्याह-तत्स्वभाव इत्यादि । सः स्वानुभूते व्यवसायजनकः स्वभावविशेषो
यस्य, अन्यथा नीलादा व (दौ व्यव)सायो न भवेद् असक्त (अशक्त) स्याजनकत्वात् , तजनकेतर१० भेदात् तद्भेदो वा, तत्तथोक्तं दर्शनं तस्य सन्निधानस्याविशेषेऽपि यदि । परिहारमाह-गिराम्
इत्यादि । दर्शनपाटवाद्यभावस्य उभयत्र समानत्वात् । अथ नीलादिवत् क्षणक्षयादौ व्यवसायजनकः तद्विशेषः तस्य नास्ति ; तत्राह-अखण्डम् इत्यादि । अखण्डमद्वयं स्वम् आत्मानं बुद्धिः खण्डयन्ती स्वविषये अध्यवसायजननसमर्थेतररूपतया सांशं कुर्वन्ती । ननु नीलादौ तजनन[सामर्थ्यमेव अन्यत्राऽ]सामर्थ्यम् , अतोऽयमदोष इति चेत् ; नित्यस्यापि एकदा सामर्थ्य१५ मन्यदा असामयं स्यात् , ततो यथा नित्यं स्वकार्य युगपत् सर्वदात्मानं भिन्नन्ति (भिनत्ति) तथा
बुद्धिरपि इति[५५७क]स्थितम् परं वा[s] खण्डं खैण्डं खण्डयन्ती । तथाहि-नीले निश्चयं जनयति न क्षणक्षये, ततो गृहीतेतरयोरिव निश्चितेतरयोरपि भेदः । कथं नियमात नियमेन सन्निहितसकलार्थग्राहिणी नाम । यथाहि दर्शनं स्वविषयत्वाऽविशेषेऽपि सन्निहितयोरपि
'नीलक्षणिकत्वयोरपि' नीलक्षणिकत्वयोर्विभागेन निश्चयं जनयति तथा श्रोत्रं स्वविषयेषु रा (ग)२० कारादिषु इति भावः ।
ननु स्यादेवं यदि दर्शनवद् अर्थविषया विकल्पबुद्धिः स्यात् , यावता निर्विषयता तत्कथं तद्भेदादर्थभेद इति ? तदाह-न वै विकल्पबुद्धिः इत्यादिना । तत्र परिहारं पठति प्रोक्तम् इत्यादिक (कम् ।)
__दर्शनं नीलवत् क्षणक्षये प्रवृत्तमपि सहकारिवैफ(क) ल्यादविशेषेण[न] निश्चय[मुत्पा२५ दय]ति इत्यत्र दर्शने पुनरपि दूषणं दर्शयन्नाह-साकल्येन इत्यादि ।
[साकल्येन गृहीतेऽपि शब्दराशौ सकृद्धिया । _ शब्दः प्रतीयते नान्यो यद्व्यवसायेऽस्ति प्रत्ययः ॥१२॥ सर्वतः..]
साकल्येन सामस्त्येन गृहीतेऽपि शब्दराशौ अकारि (कारादि) हकारपर्यन्तवर्णसमूहे ३० सकृद्विया (सकृत् धिया)श्रवणज्ञानेन, यस्य शब्दस्य व्यवसायो यव्यवसायः तस्मिन्
(१) स्वभावविशेषः । (२) क्षणक्षयादौ । (३) अस्ति । (४) 'खण्डम्' इति द्विलिखितम् । (५) 'नीलक्षणिकत्वयोरपि' इति द्विलिखितम् । (६) मते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org