________________
७१३
११।११]
स्फोटविचारः तत्रैव इति चेत् ; अत्राह-असंभवात् इत्यादि । स्वस्य सौगतस्य इष्टोऽर्थः क्षणिकनिरंशपरमाणुलक्षणः तस्याऽविसंवादे संप्रतिपत्तौ क्रियमाणायां लक्षणं न प्रमाणम् * "सारूप्यमस्य प्रमाणम्" न्यायबि० ११२०] इति वचनात् । किम् ? इत्याह-स्वाकारज्ञानं(न)हेतुता स्वस्य अर्थस्य आकार इव आकारो यस्य ज्ञानस्य हेतोः भावः तत्ता । अत्र हेतुत्रयमाह-असंभवात इत्यादि । प्रथमं दर्शयति-नहि इत्यादिना। अनेन स्वलक्षणानां प्रत्यक्षग्राह्यत्वं निषेधतिस्म । तर्हि स्वलक्षणेभ्यः ५ कार्य किंचिल्लिङ्गभूतं ततः तदाकारं ज्ञानम् अतः परम्परया तानि स्वाकारज्ञानहेतव इति ; तत्राह-परम्परयापि उक्तया न केवलं साक्षात् हेतवो न भवन्ति [५५६क] एव स्वलक्षणानि । कुतः ? इत्याह-क्षणिकत्वे इत्यादि । विवेचितमसकृत् । अनेन अनुमेयत्वम्। अतोऽस्मान्न्यायात् सर्वथा प्रत्यक्षानुमानप्रकारेण न संभवत्यर्थस्य परपरिकल्पितवस्तुनोऽविसंवादात् (दल)क्षणमव्यभिचारि प्रमाणम् । माभूत् बहिः स्वलक्षणानामविसंवाहलक्षयं (वादलक्षणं) सौगतैः तन्निषे- १० धात, ज्ञानस्य तु स्यादिति चेत् ; अत्राह-तत इत्यादि । तत एव स्थूलैकान्वयिनः साक्षाद्दर्शनादेव ज्ञानस्यापि न केवलं बहिःस्वलक्षणानाम् । किंभूतस्य ? तदाकारस्य स्खलक्षणाकारस्य सर्वथा न संभवति तल्लक्षणमिति पदघटना । *"यद्यथावभासते तत्तथैव परमार्थसद्व्यवहारावतार" इत्यादि वचनात् स्थूलैकान्वयिविषयमेव ज्ञानमस्तु इति चेत् ; अत्राह-तद् इत्यादि । तद इत्यनेन स्थूलैकान्वयी परामृश्यते स विषयो यस्य ज्ञानस्य [तस्य]भावः तत्ता १५ तस्याः सौगतैरनभ्युपगमात् क्षणभङ्गादिभङ्गभयात् । . हेत्वन्तरमाह-तत्प्रति[भा]सविरोधाच इति । तस्य स्थूलैकान्वयिनः प्रतिभासः तदाकारता ज्ञानस्य तस्य विरोधात् । उपलक्षणमेतत् वैयधिकरण्यदः (ण्यादेः) । 'च' इति हेतुसमुच्चये ।
द्वितीयं हेतुं व्याख्यातुं परेण आत्मानं पयुति (प्रश्नयति) 'कथमव्याप्तिः' इति ; उत्तरमाह-उपादानोपादेयसंविदोः इत्यादि । सर्वं गतार्थम् । अव्याप्तिं व्याख्यातुं प्रश्नयति- २० 'कथमव्याप्तिः' इति ? तत्रोत्तरं विज्ञान इत्यादि तादृगे ।
___ भवतु वा सदादिनेव क्ष[ण]यादिनापि भावस्य ग्रहणं तथापि सौगतस्य मीमांसको दुर्जय इति दर्शयन्नाह-भिन्नस्य इत्यादि।
[भिन्नस्य सर्वतोऽन्यस्मात् भेदं तद्व्यवसाययेत् ।
प्रत्यक्षं सर्वतः तद्वत् नियमः स्याद् गिरां श्रुतेः ॥११॥ स्वलक्षणस्य स्वभाव[विलक्षणस्य] दर्शनं तत्स्वभावविशेषसन्निधानाविशेषेऽपि [कचित् ] यदि साक्षाद् व्यवसायं जनयति, गिरां 'बुद्धिः अखण्डं स्वं परं वा खण्डयन्ती कथं नियमात् सन्निहितसकलार्थग्राहिणी नाम , न वै विकल्पबुद्धिः [अपरमार्थविषया] प्रोक्तम्]
भिन्नस्य व्यावृत्तस्य व्यावृत नतयो.. [५५६ख] रस्मात् (?) । किं भूतात् ? सर्वतः ३०
(१) "अर्थसारूप्यमस्य प्रमाणम्”-न्यायवि०। (२) 'निषेधतिस्म' इति सम्बन्धः। (३) बहिरर्थनिषेधात् । (१) गतार्थम् । (५) प्रती रिक्तमेतत् स्थलम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org