________________
(११.
शब्दनयसिद्धिः
सिद्धिविनिश्चयटीकायाम्
७१२
एव ज्ञानस्यापि तदाकारस्य, तद्विषयतायाः सौगतैरनभ्युपगमात् तत्प्रतिभासविरोधाच्च कथमव्याप्तिः १ उपादानोपादेयसंविदोः । विज्ञान]
एकदा एकस्मिन् क्षणे श्रुतिः श्रवणं ( ं) 'संभवेत्' इत्युपस्कारः । कथम् ? इत्याहअशेषत: अशेषरूपेण, सदादिनेव क्षणक्षयादिनापि इत्यर्थ: । केषाम् ? 'शब्दानाम् ' ५ इत्यनुवर्त्तते । कुतः ? इत्याह- सन्निधेः शब्दत्वादि (दे ) रिव सन्निधानात् क्षणक्षयादेरपि । कस्मिन् सति ? इत्याह- एकाक्षसम्बन्धे एकेन अक्षेण सम्बन्धे सति [ ५५५क ] येनाक्षेण सदादेः तेन क्षणक्षयादेरपि । एवं मन्यते - यदि समानदेशानां समानेन्द्रियमाह्माणां नियमेन युगपतिः तर्हि सदादिक्षणक्षयादेः युगपच्छ्रवणं (पद् ग्रहणं भवेद् एकाधारैकेन्द्रियग्राह्यत्वात्, तथा च व्यञ्जकान्तरवत् प्रमाणान्तरमनर्थकमिति भावः । अशेषतः श्रुतिरस्त्येव - * " एकस्यार्थ१० स्वभावस्य " [प्र० वा० ३।५२] इत्यादि वचनात् इति चेत्; अत्राह-न इत्याद्यते (त्यादि । ) न केवलम् [अन्त]रभिप्रेतानंशक्षणिकसंविदो न बहिरप्यभिप्रेतानंशक्षणिकसंविदो न तथाप्रतीतिः इति भावः । चर्चितमेतत् ।
"
कारिकां व्याख्यातुमाह-क्षणिक परमाणुषु इत्यादि । क्षणिकेषु परमाणुषु न तत्त्वस्य निरंशक्षणिकस्वभावस्य उपलब्धिः । कस्मिन् सति ? इत्याह- तद्विपरीत इत्यादि । क्षणिक१५ परमाणुप्रत्यनीकस्वभावोपलब्धौ सत्यां । कुतः ? मोहोद्रेकात् अज्ञानमाहात्म्यात् । अनेन 'बहिरभिप्रेतानंशक्षणिकसंविदः' इति व्याख्यातम् । तथा अन्तस्तच्चे समानं 'न तत्त्वोपलब्धिः' इत्येतत्सदृशम् । कस्मिन् सति ? इत्याह-वेद्य इत्यादि । अनेन 'नान्तरभिप्रेतानंशक्षणिकसंविदः' इति व्याख्यातम् । इत्येवम् अभ्युपेत्य अभ्युपगम्य सौगतः कथं प्रतिक्षिपेत् निराकुर्यात् ? किं कुर्वन्तम् ? इत्याह- प्रतिपत्तुः इत्यादि । प्रतिपत्तुः पुरुषस्य २० यथा[सन्निधानं] सन्निधानानतिक्रमेण सकलस्य शब्दराशेः उपलम्भाशक्त ेः कथंचित् केनापि नियतदेशादिप्रकारेण कस्यचिद् अकारस्य अन्यस्य वा शब्दात्मनः श्रुतिरित्येवं ब्रुवाणं मीमांसकम् । यथा बहिः परमाणूनां नीलतामात्रस्य अन्त: संवेदनस्य सच्चेतनादेरुपलम्भेऽपि [५५५ख] सन्निहितस्यापि न क्षणक्षयादेरुपलम्भः तथा अकारोपलम्भे सन्निहितस्यापीत [र]स्ये न श्रुतिः प्रतिपत्तिः तथाशक्तेः इति भावः ।
२५
ननु नान्तर्बहिर्वा परमार्थतो निरंशक्षणिकपरमाणुरूपं तत्त्वं येनायं दोषः स्यात् अपि तु यथाऽविसंवादनियममिति चेत्; अत्राह विषय इत्यादि । विषयो घटादिः विषयि ज्ञानं तयोः योऽविसंवादनियमः तस्य अनेकान्ताकर्षणात् तेन तदाकर्षणादिति द्रष्टव्यम् । कुतः ? इत्याह-तस्य तन्नियमस्य अन्यथा तदाकर्षणाभावप्रकारेण अनुपपत्तेः ।
ननु यदुक्तम्- 'न बहिरभिप्रेतानंशक्षणिकसंविदः' इति, नियमस्य अनेकान्ता३० कर्षणात्' इति च; तन्न युक्तम् ; परमाणुभ्यो ऽनशक्षणिकाकारसंविदो [s]भावा [त् ] । तन्नियमो ऽपि (१) 'प्रत्यक्षस्य सतः स्वयं । कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ।' - प्र० वा० । (२) धकारादेः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org