________________
११।९-१० ] स्फोटविचारः
७११ अथ व्यञ्जकेन तस्य न किंचित् क्रियते तथापि ततो व्यक्तिः । तत्राह-व्यक्त इत्यादि । व्यञ्जकव्यापारदशायां व्यक्तश्च तद्व्यापारा[१]पूर्वमव्यक्तस्व (श्च) तौ स्वभावौ च योतः प्राप्तिश्च परिहारश्च याथासंख्येन[५५४ख] तावन्तरेण कुतो व्यक्तिः ? अधुना व्यक्तस्य तिरोधानं दूषयन्नाह-तत् इत्यादि । तयोः व्यक्ताव्यक्तस्वभावयोः याथासंख्येन त्यागश्चोपादानं च ताभ्यामृते कुतः तिरोधानम् इत्युक्तप्रायम् ।
नास्ति सर्वगतत्वमिति चेत् ; अत्राह-सत्या(त्यां)च. इत्यादि । किम् ? इत्याहव्यञ्जक इत्यादि । [सत्यां च
व्यञ्जकव्याप्तौ न स्याद् व्यङ्ग्यस्य नियमाद्गतिः ।
नावश्यंभावनियमः श्रुतेरुच्चारणात्ततः ॥९॥ शब्दानामव्यापित्वे सत्यपि व्यञ्जकव्यापारे व्यक्तिरवश्यम्भाविनी न भवेत् जातिसम्बन्धवत् । न हि व्यक्तिजन्मदेशे प्राक् असत्या जात्या सम्बन्धो युज्यते ।।
व्यञ्जकस्य ताल्वादेः तज्जनितवायोर्वा व्याप्तौ न स्याद् व्यङ्ग्यस्य शब्दस्य नियमादतिः। नहि प्रदीपव्यापारे नियमेन घटंगतिः । ततः किम् ? इत्याह-नावश्यंभावनियमः श्रुतेः शब्दस्य उच्चारणात् ताल्वादिव्यापारात्ततः।
___ कारिकां विवृण्वन्नाह-शब्दानामव्यापित्वे अङ्गीक्रियमाणे सत्यपि विद्यमानेऽपि व्यञ्जकव्यापारे व्यक्तिरवश्यंभाविनी न भवेत् । निदर्शनमाह-जातिसम्बन्धवत् ।जात्या व्यक्तेः सम्बन्धः तस्येव तद्वत । व्यक्तिगतजातिमपेक्ष्य इदमुक्तम् । एतदेव समर्थयते-नहि इत्यादिना । नहि प्राक् व्यक्त्युत्पत्तेः पूर्वम् असत्या जात्या । क ? इत्याह-व्यक्तिजन्मदेशे सम्बन्धो युज्यत इति ।
- सौगतेन उच्यमानमिदं मीमांसकदूषणं तस्यपि लगतीति दर्शयन्नाह-सन्निवे(धे)रित्यादि ।
[सन्निधेरेकाक्षसम्बन्धे एकदाऽशेषतः श्रुतिः ।
न बहिरन्तरभिप्रेतानंशक्षणिकसंविदः ॥१०॥ क्षणिकपरमाणुषु मोहोद्रेकात् तद्विपरीतस्वभावोपलब्धौ न तत्त्वोलब्धिः । तथा २५ अन्तस्तत्त्वे समानम् । वेद्य 'इत्यभ्युपेत्य सौगतः प्रतिपत्तुः यथासन्निधानं सकलोपलम्भाशक्तेः कथञ्चित् कस्यचित् श्रुतिरिति ब्रुवाणं मीमांसकं कथं प्रतिक्षिपेत् ? विषयविषयिणोः अविसंवादनियमस्य अनेकान्ताकर्षणात् तदन्यथानुपपत्तेः, असंभवात् । स्वेष्टार्थाविसंवादे लक्षणं न प्रमाणं स्वाकारज्ञानहेतुता । नहि परम्परयापि स्वलक्षणानि हेतवो न भवन्त्येव क्षणिकत्वे 'अतः सर्वथा न संभवत्यर्थस्य अविसंवादलक्षणम् । तत ३०
(१) घट उपलभ्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org