________________
सिद्धिविनिश्चयटीकायाम्
[ ११ शब्दनयसिद्धिः
समवायिकारणं न विरुध्येते (ध्यते) । [ ५५३ ख ] तानि तस्य समवायिकारणं चेत्; प्रथमशब्दाकाशमारूढानामेव परेषामुत्पत्तिरिति नाकाशवृद्धिः, सति कारणे कार्योत्पत्तौ सन्तानावृद्धिवत् । अन्यत्वे तदवस्थो दोषः । एवं च तन्नित्यत्वव्यापित्वविलोपात् आकाशदेवणं (द्रव्यं न ) यौगस्य । अथ शब्दः अन्तःकरणप्रत्यासन्नो गृह्यते विभुद्रव्यविशेषगुणत्वात् सुखादिवत् ; अत्रापि ५ नभसोऽनेकत्वे पूर्ववद् दोष: । एकत्वे ; गगनमनसोरनंशयोः [संयो] गे सर्वेषां शब्दानां तत्प्रत्यासत्तिः समाना इति स्थितमिदम् - सर्वेषां सकृच्छ्रतिरिति ।
७१०
कारिकां विवृण्वन्नाह-तत्कृतमित्यादि । अ [यम ]भिप्रायः - व्यंजकेन व्यैङ्ग्याभिमतस्य कश्चिदतिशयः क्रियते, न वा ? प्रथमपक्षे तत्कृतं व्यञ्जक [कृत]म् उपकारं ग्राह्यतालक्षणमिति (णमति)शयमात्मसात्कुर्वतः स्वभावभूतमवलम्बमानस्य तद्देशवृत्ति [ नि ] यमा (म) भावात् १० व्यञ्जकदेशवर्त्तननियमात् । श्रवणेन्द्रियग्राह्यस्वभावः पदार्थः शब्दः, स यत्रैव श्रूयते तत्रैवास्ति, व्यब्जकदेशे च श्रूयते । न खलु घटोऽन्यत्र दृश्यमानः अन्यत्राप्यस्ति, सर्वगतत्वप्रसङ्गादिति भावः । तन्नियमात् किम् ? इत्याह- कूटस्थस्य नित्याभिमता क्ष (तार्थ) स्य नियमे तदेश (मेन तद्देश) वृत्तिरेव [त]तः किम् ? इत्याह-न संभवति 'सर्वगतत्वम्' इत्यध्याहारः । अनेन 'व्यापिनाम्' इति निरस्तम्
१५
सर्वगतत्वमभ्युपगम्य दूषणं दर्शयन्नाह - सर्वगतत्वेऽपि इत्यादि । संभावनायाम् अपिशब्दः । सर्वगतत्वे सत्यपि शब्दानां विवक्षितैकशब्दश्रुतिर्न स्यात् सर्वेषां [ ५५४ ] स्यादित्यर्थः, श्रवणग्रहणयोग्यत्वात् ।
"
ननु नियतव्यञ्जककृता नियतश्रुतिः, इत्यत्राह - नहि इत्यादि । न हिर्यस्मात् समानदेशानां समानाविषयाणामेतत् नियतव्यञ्जक (व्यङ्ग्य) त्वम् नाप्यं ( न्याय्यम् ) प्रमाणोपपन्नं क्वचित् २० तथा[s]दर्शनात् व्यंवधायकतदपसारणयोः सर्वत्र साधारणत्वात् । व्यञ्जकनियममभ्युपगम्य दूषयन्नाह - प्रत्येकम् इत्यादि । एकमेकं वर्णं प्रति प्रत्येकम् व्यञ्जकनियमे अकारस्य व्यञ्जको नापरस्य इति नियोगे अङ्गीक्रियमाणे कलकलश्रुतेरनुपपत्तेः कारणात् एतन्न्याय्यम् नहि । तथा हि-आवरणविगमकारिणि व्यञ्जके तन्नियमो न संभवति इत्युक्तम् । व्यङ्ग्यातिशया वापि ने (शयो व्यापिनि) तु संभवति किन्तु तस्यानित्यत्वम्, श्रोत्रातिशयाधाय्यकिञ्चित्करम् २५ इत्युक्तम् । केवलं तद्बुद्धिजनकं व्यव्जकमवशिष्यते, तस्य व्यक्तिरपि बुद्धिरेव । तत्रैकत्वेन बुद्धिः कस्यचित् केनचिदुत्पादिता यदा भवति, तदा सतोऽप्यन्यान् न गृह्णीयात् । विवक्षितैः व्यन्जकैः सह संभूय सैका जन्यत इति चेत्; न सदेतत् ; यतः व्यञ्जकानियमप्रसङ्गात्, अन्यव्यञ्जकैरपि अन्यबुद्धिजननात् । नवांशेन (न चांशेन ) तज्जननं युक्तम्, एकान्तहानेः । तद्वद्वर्णेष्वपि सावयवत्वप्रसङ्गात् तथाप्रतीतेः । तन्न कलकलश्रुतिः । एको वर्ण: कलकल इति चेत्; ३० न ; वर्णभेदप्रतीतेः ।
(१) आकाशनित्यत्वव्यापित्वलोपात् (२) निराकरणमित्यर्थः । (३) ध्वनिना । (४) शब्दस्य । (५) समानेन्द्रियगोचराणाम् । (६) आवरण । (७) नियतव्यञ्जकव्यङ्ग्यत्वम् । (८) बुद्धिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org