________________
११३८ ]
७०९
न शब्दस्य नित्यत्वम् विधश्रवणान्यथानुपपत्तेः प्रतिनियतव्यञ्जकानां वा इति कल्पनमस्तु अविशेषादिति ; न ; प्रतिनियतावरणनिषेधात्, तत्स्वरूपाखण्डनात् । अथ इन्द्रियस्य तद्ग्रहणयोग्यता तेन प्रतिहन्यते ; सापि न साध्वी कल्पना ; विषयस्य दर्शनजननयोग्यस्य भावे दर्शनस्य अवश्यम्भावात् । सहकारिणः प्रतिहतप्रसरत्वान्नेति चेत् ; न ; नित्यस्य तदपेक्षायोगात् । आत्मनः सा तेन प्रतिहन्यत इत्यपि मिथ्या ; नित्यत्वात्तस्य । कार्योत्पत्तिप्रतिबन्धः क्रियते चेत् ; न ; समर्थे कारणे तस्याऽवश्यंभावात, ५ इतरथा कारणं जनयति तच्च प्रतिबध्नातीति काचपच्यं भावाना (नाम) । तस्माद् व्यवधायकमेव आवरणं व्यापिनाम् । तदपि कथमिति चेत् ? अयमपरोऽस्य दोषोऽस्तु, केवलं वयमभ्युपगमवा. दिनः । तच्च व्यवधायकमेकमपि समानदेशानां समानेन्द्रियग्राह्याणां समानमिति केनचित्तदपसारणे सर्वेषां युगपद्ग्रहणम्, कउ(कॅट)पटापसारणे तथापिच (तथाविध) घटानामिव ।
येऽपि मन्यन्ते-आत्मा मनसा युज्यते तदपि नभसा श्रवणेन्द्रियेण, तत्पुनरर्थेन शब्देन । १० अत्र इन्द्रियार्थयोः समवायः [५५३क] सम्बन्ध इति ; तेऽपि एतेन निर्वतितोत्तराः ; तेषामपि सकृत् सर्वेषां शब्दानां श्रुतिः स्या[त्] व्याप्येकान्ततः श्रोत्रम्, तत्र समवेताः सर्वे शब्दा इति संयुक्तसमवायः मनसा विवक्षितवत् सम्बन्धोऽविशिष्ट इति । विशिष्टादृष्ट[स्य] नियामकत्वे : मानो [मनोऽ]तिरिच्यत" इत्युक्तमत्रैव सर्वज्ञसिद्धौ । किंच, समवायोऽप्येवं न ग्रहणकारणम् । अदृष्टवशाद् गगनसमवेतस्य कर्णशष्कुलीश्रोत्रेणाविरोधात ग्रहणस्य, घटसमवेतरूपस्येव १५ चक्षुषा । शब्दस्य आकाशगुणत्वं च निषिद्धम् । तन्न युक्तम्-*""शब्दः स्वसमानजातीयविशेषगुणवता इन्द्रियेण गृह्यते बाबै केन्द्रियग्राह्यखात् रूपादिवत् ।" ___स्यान्मतम्-अनेकत्वात् नभसो नायं दोष इति ; तथाहि-देवदत्तकर्णशष्कुलीपरिकरपरिरुद्धमत्र (मन्यत्) नभोऽन्यदत्तः (न्यच्च यज्ञदत्तस्य) तत्र समवेतस्य नान्येन ग्रहणम् । तत्रदं चिन्त्यते-किं तस्य कारणमिति ? तदेव नमः इति चेदं (चेत् ; अ)समवायिकारणं वाच्यम् ? न २० च तदन्तरेण परस्य गुणभावः । भेरीदण्डसंयोग इति चेत् ; न ; तत्र "तदभावात् , स्वकारणसमवायि वा समवायि कारण (स्वसमवायिकारणसमवेतत्वात् ) ध्वनेः । व्युपरते च "तत्संयोगे पुनः तच्छ्रवणं न स्यात् । क्षणिकत्वात् ध्वनेः न तस्य तत् ; "शब्दान (च) शब्दनिष्पत्तिः" विशे० सू० २।२।३१] इति" व्याहन्यते । अथ पूर्वः शब्दोऽसमवायिकारणम् स नभोऽन्तरसमवेतो त (न) तत्कारणम्, अन्यथा कपालरूपादयः पटरूपादीनां तत्कारणं स्युः।
१५ यदि पुनरेतन्मतम्-पूर्वशब्दाकाशैः तदाकाश (शं) जन्यते, ततः स्वकारणसमवायि वा[s]
(१) प्रतिनियत । (२) शब्दग्रहणयोग्यता । (३) आवरणेन । (४) योग्यता । (५) कटश्च पटश्च आवरणभूतौ तयोः । (६) समानदेशसमानेन्द्रियग्राह्य । (७) नैयायिकाः । (८) मनः (९) श्रवणशब्दयोः गुणिगुणभूतयोः । (१०) युगपज्ज्ञानानुत्पत्तिरपि विशिष्टादृष्टादेव स्यादिति मनःकल्पना व्यर्था स्यादिति भावः (११) व्यापित्वात् । (१२) तुलना-“यस्य बाझै केन्द्रियग्राह्यविशेषगुणग्राहकं यदिन्द्रियं तत्तद्गुणकं यथा रूपग्राहकं चक्षू रूपाधिकरणम्, श्रोत्रं च तथाभूतस्य शब्दस्य ग्राहकं तस्मात्तदपि शब्दगुणकम् ।”-प्रश० कन्द० पृ० ६३ (१३) शब्दाभावात् । (१४) भेरीदण्डसंयोगे । (१५) “संयोगाद्विभागात् शब्दाच्च शब्दनिष्पत्तिः।"-वैशे० सू० । (१६) आकाशान्तर । (१७) असमवायिकारण ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org