________________
७०८
सिद्धिविनिश्चयटीकायाम् [११ शब्दनयसिद्धिः [नित्यत्वेऽपि शब्दानां सर्वेषां स्यात्सकृच्छ्रुतिः।
समाक्षग्रहयोग्यत्वात् व्यापिनां समवस्थितः ॥८॥ तत्कृतमुपकारमात्मसात्कुर्वतः तद्द शवृत्तिनियमभावात् । कूटस्थस्य नियमेन तद्देशवृत्तिन संभवत्येव । सर्वगतत्वेऽपि विवक्षितैकशब्दश्रुतिर्न स्यात् । नहि समानदेशानां ५ समानाक्षविषयाणामेतत् न्याय्यम् । प्रत्येकं व्यजकनियमे कलकलश्रुतेरनुपपत्तेः । व्यक्ताव्यक्तस्वभावप्राप्तिपरिहारमन्तरेण कुतो व्यक्तिः ? तत्त्यागोपादानाभ्यामृते कुतः तिरोधानाम् ?]
नित्यत्वे कूटस्थत्वेऽपि शब्दानामक्षराणां [५५२क] न केवलं क (का) दाचित्कश्रवणं न संभवति श्रवणैकस्वभावानां सर्वदा श्रवणं संभवति इत्यर्थः । अथ यदा ज्ञानं तदा श्रवणम्, १० अन्यदा विपर्ययः ; न ज्ञानं कुतः तेभ्यः सर्वदा स्यात् ? नित्यस्यापेक्षणं च निरस्तम् ।
स्यान्मतम्-आवरणसद्भावे अश्रवणं तदभावे श्रवणम् ; उपपन्नमेतत्-यस्यावरणेन तेषां तजननसामर्थ्यमपसार्येत । समर्थं तु व्यवहितमपि स्वकार्य जनयति यथा संभूतचक्षुः तिमिरव्यवहितं रूपस्य । ततो न केवलं कादाचित्कश्रवणं न संभवति विवक्षितैकश्रुतिनियमश्च न संभवति सकृत्
सर्वेषां अतिः स्यात् इत्यर्थः । अथ सर्वत्र सर्वदा सर्वेषां सन्निधानेऽपि यस्य यत्र व्यञ्जक१५ सन्निधिः तत्र तस्य श्रवणमिति ; तत्राह-समाक्ष इत्यादि । इष्टस्य अकारस्य अन्यस्य वा ताल्वादिप्रेरितात् ध्वनेरभिव्यक्तिः प्रकाशनं नेतरस्य इति योऽयं तद्व्यक्तिनियमः स न । कुतः ? इत्याह-समाक्षग्रहयोग्यत्वात् एकेन्द्रियग्राह्यत्वात् ।
ननु एकेन्द्रियग्रहयोग्या अपि देशादिभिन्ना घटादयो नैकप्रदीपव्यङ्ग्या इति चेत् ; अत्राह-व्यापिनां तेषां समवस्थितेः एकदेशे स्थितेः अतः तन्नियमाभावात् सर्वेषामक्षराणां २० सकृच्छ्रुतिः । न खलु समानदेशेषु समानेन्द्रियग्रहणयोग्येषु व्यक्तिनियमो दृष्टः येन अन्यत्रापि कल्प्यते ।
ननु घटादौ दृष्टोधर्मो नान्यत्र योजनमर्हति, अन्यथा रथ्यापुरुषे उपलब्धो धर्मः पुरुष (षे) स्वयमभिमते योजनमर्हेत् । अथ पुरुषातिशयोऽप्यस्ति ; व्यञ्जकातिशयोऽपि तथास्तु । [५५२ख]
स्यान्मतम्-अनुपदेशाऽलिङ्गाऽव्यभिचारिनष्टमुष्ट याद्युपदेशान्यथानुपपत्तेः तत्कल्पनमिति ; २५ तर्हि व्यापिनां समाक्षग्रहयोग्यानां कादाचित्काऽश्रवणान्यथानुपपत्त्या प्रतिनियतावरणम् , तथा
(१) तुलना-"सर्वशब्दानां युगपद्ग्रहणप्रसङ्गात् । श्रोत्रं तावत् समानेन्द्रियग्राह्यसमानदेशसमानधर्मापन्नार्थानां ग्रहणमय प्रतिनियतसंस्कारकसंस्कार्य न भवति इन्द्रियत्वात् चक्षुर्वत् । शब्दा वा प्रतिनियतसंस्कारकसंस्कार्या न भवन्ति समानेन्द्रियग्राह्यसमानधर्मापन्नत्वे सति युगपदिन्द्रियसम्बद्धत्वात् घटादिवत् ।" -न्यायसा० पृ० ३० । प्रश० व्यो० पृ० ६४८ । न्यायवा० पृ० २८८ । “समानकरणानां तादृशामभिव्यक्तिनियमायोगात् सर्वत्र सर्वदा सर्वेषां संकुला श्रुतिः स्यात् ।"-अष्टश० अष्टस० पृ० १०५ । न्यायकुमु० पृ० ७०८ । प्रमेयक० पृ० ४२३ । सन्मति० टी० पृ० ३६ । स्या० रत्ना० पृ० ६८३ । प्रमेयरत्नमा० ३।१००। शास्त्रवा० टी० पृ. ३७८ । (२) शब्दानाम् । (३) नक्तंचरचक्षुः । (४) असर्वज्ञत्वलक्षणः । (५) पुरुषातिशयस्य कल्पनमिति । तुलना-"अनुपदेशालिङ्गानन्वयव्यतिरेकपूर्वकाविसंवादिनष्टमुष्टिचिन्तालाभालाभसुखदुःखग्रहोपरागाद्युपदेशकरणान्यथानुपपत्तेः ।"-बृहत्सर्वज्ञ० पृ० १३० ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org